________________
आगम
(०२)
सूत्रकृताङ्गे
२ श्रुतस्क न्धे शीलाङ्कीयावृतिः
॥४०९ ॥
“सूत्रकृत्” - अंगसूत्र -२ ( मूलं+निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७१], निर्युक्ति: [ २०५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
भगवान् गौतमस्वामी श्री वर्धमानस्वामिगणधरो विहरति । अथानन्तरं भगवान् गौतमस्वामी तस्मिन्नारामे सह साधुभिर्व्यवस्थितः, | 'अर्थ' अनन्तरं णमिति वाक्यालङ्कारे उदकाख्यो निर्ग्रन्थः पेढालपुत्रः 'पार्श्वापत्यस्य' पार्श्वस्वामिशिष्यस्यापत्यं शिष्यः पार्श्वापत्वीयः, स च मेदाय गोत्रेण येनैवेति सप्तम्यर्थे तृतीया, यस्यां दिशि यस्मिन्वा प्रदेशे भगवान् श्रीगौतमखामी तस्यां दिशि तसिन्वा प्रदेशे समागत्येदं वक्ष्यमाणं प्रोवाचेति । अत्र नियुक्तिकारोऽध्ययनोत्थानं तात्पर्य च गाथया दर्शयितुमाहपासावचिजो पुछियाइओ अज्जगोयमं उदगो । सावगपुच्छा धम्मं सोडं कहियंमि उवसंता ॥ २०५ ॥
पार्श्वनाथशिष्य उदकाभिधान आर्यगौतमं पृष्टवान् किं तत् १ - श्रावकविषयं प्रश्नं, तद्यथा-भो इन्द्रभूते ! साधोः श्रावकाणुत्रतदाने सति स्थूलप्राणातिपातादिविषये तदन्येषां सूक्ष्मवादराणां प्राणिनामुपघाते सत्यारंभजनिते तदनुमतिप्रत्ययजनितः कर्मबन्धः कस्मान्न भवति ?, तथा स्थूलप्राणातिपातत्रतिनस्तमेव पर्यायान्तरगतं व्यापादयतो नागरिकबधनिवृत्तस्य तमेव बहिःस् | व्यापादयत इव तद्वतभङ्गजनितः कर्मबन्धः कस्मान्न भवतीत्येतत्प्रश्नस्योत्तरं गृहपतिचौरग्रहणविमोक्षणोपमया दत्तवान्, तच श्रावप्रश्नस्योपम्यं गौतमखामिना कथितं श्रुखोदकाख्यो निर्ग्रन्थः 'उपशांतः' अपगतसंदेहः संवृत्त इति । साम्प्रतं सूत्रमनुत्रियते'स' उदको गौतमस्वामिसमीपं समागत्य भगवन्तमिदमवादीत्, तद्यथा-- आयुष्मन्गौतम ! 'अस्ति मम विद्यते कश्चित्प्रदेशः प्रष्टव्यः' तत्र संदेहात् तं च प्रदेशं यथाश्रुतं भवता यथा च भगवता संदर्शितं तथैव मम 'व्यागृणीहि' प्रतिपादय । एवं पृष्टः, स चार्य भगवान्, यदिवा सह वादेन सवादं पृष्टः सद्वाचं वा— शोभनभारतीकं वा प्रश्नं पृष्टः, तमुदकं पेढालपुत्रमेवमवादीत्,
Eaton Interation
For Parts Only
~822~
७ नाल
न्दीयाध्य
॥४०९ ॥