________________
आगम
(०२)
सूत्रकृताने
२ श्रुतस्क न्धे शीलाझीयावृत्तिः
1180211
“सूत्रकृत्” - अंगसूत्र- २ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ ६ ], उद्देशक [-] मूलं [गाथा - ४६], निर्युक्तिः [२००] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०२ ], अंग सूत्र - [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
गालो वै एष जायते यः सपुरीषो दात' इत्यादिना तथा 'सयः पतति मांसेन, लाक्षया लवणेन च। त्र्यहेन शुद्रीभवति, त्राझणः क्षीरविक्रयी ।। १ ।। इत्यादि, परलोके चावश्यंभावी जातिपातः, यत उक्तम् - "कायिकैः कर्मणां दोषैर्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥ १ ॥ इत्यादि, गुणैरप्येवंविधैर्न ब्राह्मणलं युज्यते, तद्यथा - "पट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनाभ्यूनानि पशुभिस्त्रिभिः ॥ १ ॥ इत्यादि, वेदोक्तवान्नायं दोष इति चेत् | नन्विदमभिहितमेव 'न हिंस्यात्सर्वभूतानी'त्यतः पूर्वोत्तरविरोधः, तथा “आततायिनमायान्तमपि वेदान्तगं रणे । जिघांसन्तं | जिघांसयान तेन ब्रह्महा भवेत् ॥ १ ॥" तथा 'शूद्रं हत्वा प्राणायामं जपेत् अपहसितं वा कुर्यात् यत्किञ्चिद्वा दद्यात्', तथा 'अनस्थिजन्तूनां शकटभरं मारयित्वा ब्राह्मणं भोजयेद्' इत्येवमादिका देशना विद्वज्जनमनांसि न रञ्जयतीत्यतोऽत्यर्थमसमञ्जसमिव लक्ष्यते युष्मदर्शनमिति । तदेवमार्द्रककुमारं निराकृतब्राह्मणविवादं भगवदन्तिकं गच्छन्तं दृष्ट्वा एकदण्डिनोऽन्तराले एवोचुः, तद्यथा भो आर्द्रककुमार ! शोभनं कृतं भवता यदेते सर्वारम्भप्रवृत्ता गृहस्थाः शब्दादिविषयपरायणाः पिशिताशनेन राक्षसकल्पा द्विजातयो निराकृताः, तत्साम्प्रतम सत्सिद्धान्तं शृणु श्रुला चावधारय, तद्यथा - सस्वरजस्तमसां साम्यावस्था प्रकृतिः प्रकृतेर्महांस्ततोऽहङ्का| रस्तसाद्गणश्च षोडशकस्तसादपि पोडशकात्पञ्चभ्यः पश्च भूतानि, तथा चैतन्यं पुरुषस्य स्वरूपमित्येतत्त्वार्हतैरप्याश्रितम्, अतः पञ्चविंशतितत्व परिज्ञानादेव मोक्षावाप्तिरित्यतोऽसत्सिद्धान्त एव श्रेयानापर इति ॥ ४५ ॥ तथा न युष्मत्सिद्धान्तोऽतिदूरेण भिद्यत इत्येतदर्शयितुमाह-- 'दुहओऽवी' त्यादि, योऽयमसद्धमभवदीयथार्हतः स उभयरूपोऽपि कथञ्चित्समानः, तथाहि-युष्माकमपि जीवास्तिखे सति पुण्यपापबन्धमोक्षसद्भावो न लोकायतिकानामिव तदभावे प्रवृत्तिः नापि बौद्धानामिव सर्वाधार
Educatin internation
For Park Use Only
~806~
६ आईका
ध्ययन.
॥४०२१॥
wor