________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-४६], नियुक्ति: [२००] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
eseeneceseeeeeesesese
भूतस्यान्तरात्मन एवाभावः, तथाऽसाकमपि पञ्च यमाः अहिंसादयो भवतां च त एवं पञ्च महाव्रतरूपाः, तथेन्द्रियनोइन्द्रिय-| | नियमोऽप्यावयोस्तुल्य एव, तदेवमुभयसिन्नपि धर्मे बहुसमाने सम्यगुत्थानोत्थिता यूयं वयं च तस्माद्धर्मे मुष्ठ स्थिताः पूर्वमिन् काले | वर्तमाने एष्ये च यथागृहीतप्रतिज्ञानिर्वोढारो, न पुनरन्ये, यथा व्रतेश्वरयागविधानेन प्रवज्यां मुक्तवन्तो मुश्चन्ति मोक्षन्ति चेति, तथाऽऽचारप्रधानं शीलमुक्तं यमनियमलक्षणं न फल्गु कल्ककुहकाजीवनरूपम् अथानन्तरं ज्ञानं च मोक्षाङ्गतयाऽभिहितं, तच श्रुतज्ञानं केवलाख्यं च यथाखमावयोर्दर्शने प्रसिद्ध, तथा संपर्यन्ते-खकर्मभिर्धाम्यन्ते प्राणिनो यसिन्स संपरायः-संसारस्तसिंश्चावयोर्न विशेषोऽस्ति, तथाहि-यथा भवतां कारणे कार्य नैकान्तेनासदुत्पद्यते असाकमपि तथैव, द्रव्यात्मतया नित्यलं भवद्भिरप्याश्रितमेव, तथोत्पादविनाशावपि युष्मदभिप्रेतावाविभावतिरोभावाश्रयादसाकमपीति ॥ ४६ ।। पुनरपि त एवेकदण्डिनः सांसारिकजीवपदार्थसाम्योपादनायाहुः
अचत्तरूवं पुरिसं महंतं, सणातणं अक्षयमवयं च । सवेसु भूतेमुवि सघतो से, चंदो व ताराहिं समतरूवे.॥४७॥ एवं ण मिजंति ण संसरंती, ण माणा खत्तिय घेस पेसा । कीडा य पक्खी य सरीसिवा य, नरा य सबै तह देवलोगा ॥४८॥
पुरि शयनात्पुरुषो-जीवस्तं यथा भवन्तोऽभ्युपगतवन्तस्तथा वयमपि, तमेव विशिनष्टि-अमूर्तलादब्यक्तं रूपं-खरूपमखासावव्यक्तरूपः तं, करचरणशिरोग्रीवायवयवतया खतोऽनवस्थानात् , तथा 'महान्तं' लोकव्यापिनं तथा 'सनातन' शाश्वतं द्रव्या
१ वक्ष्यमाणानां विशेषणानां सापेक्षमभ्युपगमापेक्षया ।
~807~