________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [गाथा-३३], नियुक्ति: [१८३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक ||३३||
दीप अनुक्रम [७३७]
दानं दक्षिणा तस्याः प्रतिलम्भ:-प्राप्तिः स दानलाभोऽस्साहस्थादेः सकाशादस्ति नास्ति वेत्येवं न व्यागृणीयात् मेधावी| मर्यादाव्यवस्थितः । यदिवा खयूथ्यस्य तीर्थान्तरीयस्य वा दानं ग्रहणं वा प्रति यो लाभः स एकान्तेनास्ति-संभवति नास्ति वेत्येवं न ध्यादेकान्तेन, तहानग्रहणनिषेधे दोषोत्पत्तिसंभवात् , तथाहि-तदाननिषेधेऽन्तरायसंभवस्तद्वैचित्यं च, तहानांनुमतावप्यधिकरणोद्भव इत्यतोऽस्ति दानं नास्ति वेत्येवमेकान्तेन न ब्रूयात् । कथं तर्हि ब्यादिति दर्शयति-शान्तिः-मोक्षस्तस्य मार्गः सम्यग्दर्शनशानचारित्रात्मकस्तमुपहयेद्-वधयेत् , यथा मोक्षमार्गाभिवृद्धिर्भवति तथा ब्रूयादित्यर्थः, एतदुक्तं भवति-पृष्टः केनचिद्विधिप्रतिषेधमन्त-| रेण देयप्रतिग्राहकविषय निरवद्यमेव ब्रूयादित्येवमादिकमन्यदपि विविधधर्मदेशनावसरे वाच्यं, तथा चोक्तम्-'सावजणवजाणं वयणाणं जो न जाणइ विसेस'इत्यादि ॥३२॥ साम्प्रतमध्ययनार्थमुपसंजिघृक्षुराह-'इचे एहि'मित्यादि, इत्येतरेकान्तनिषेधद्वारेणानेकान्तविधायिभिः स्थानक्सिंयमप्रधानैः समस्ताध्ययनोक्कै रागद्वेषरहितजिनदृष्टः-उपलब्धर्न खमतिविकल्पोत्थापितेः संयतः-18॥ || सत्संयमवानात्मानं धारयन्-एभिः स्थानैरात्मानं वर्तयन्नामोक्षाय-अशेषकर्मक्षयाख्यं मोक्षं यावत्परिः-समन्तात्संयमानुष्ठाने बजे गच्छेस्त्वमिति विधेयस्योपदेशः । इति परिसमात्यर्थे, बचीमीति पूर्ववत् । नया अभिहिताः अभिधास्थमानलक्षणायेति ॥ ३३ ॥ समाप्तमनाचारभुताख्यं पश्चममध्ययनमिति ।।
॥ इति श्रीमूत्रकृताङ्गे द्वितीयश्रुतस्कन्धे पश्चममनाचाराध्ययनं समाप्तम् ॥
१ साचद्यानवयानो बचनानां यो न जानाति विशेष ।
अत्र पञ्चमं अध्ययनं परिसमाप्तं
~773