________________
आगम
(०२)
प्रत
सूत्रांक
||38||
दीप
अनुक्रम
[७३५]
सूत्रकृताने
२ श्रुतस्क न्धे शीलाकीयावृत्तिः
||३८४ ॥
“सूत्रकृत्” - अंगसूत्र- २ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ ५ ], उद्देशक [-] मूलं [गाथा - ३१], निर्युक्तिः [१८३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०२ ], अंग सूत्र - [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
वाक्संयमो द्रष्टव्यः, तद्यथा— अमी गवादयो वाह्यान वाद्या वा तथाऽमी वृक्षादयश्छेद्या न छेद्या वेत्यादिकं वचो न वाच्यं साधुनेति ॥ ३०॥ अयमपरो वाक्संयम प्रकारो ऽन्तः करणशुद्धिसमाश्रितः प्रदर्श्यते- 'दीसंती' त्यादि, 'दृश्यन्ते' समुपलभ्यन्ते स्वशास्त्रोकेन विधिना निभृतः संयत आत्मा येषां ते निभृतात्मानः, कचित्पाठः 'समियाचार'ति सम्यक् -- स्वशास्त्रविहितानुष्ठानादविपरीत आचार:-अनुष्ठानं येषां ते सम्यगाचाराः सम्यग्वा इतो व्यवस्थित आचारो येषां ते समिताचाराः, के ते ? - भिक्षणशीला भिक्षवोभिक्षामात्रवृत्तयः, तथा साधुना विधिना जीवितुं शीलं येषां ते साधुजीविनः तथाहि ते न कस्यचिदुपरोधविधानेन जीवन्ति, | तथा क्षान्ता दान्ता जितक्रोधाः सत्यसंधा दृढव्रता युगान्तरमात्रदृष्टयः परिमितोदकपायिनो मौनिनः सदा तायिनो विविक्तैकान्तध्यानाध्यासिनः अकौकुच्यास्तानेवंभूतानवधार्यापि 'सरागा अपि वीतरागा इव चेष्टन्ते' इति मत्वते मिथ्यात्वोपजीविन इत्येवं दृष्टिं न धारयेत् नैवंभूतमध्यवसायं कुर्यान्नाप्येवंभूतां वाचं निसृजेद् यथैते मिथ्योपचारप्रवृत्ता मायाविन इति, छबस्थेन - ग्दर्शिनैवंभूतस्य निश्वयस्य कर्तुमशक्यत्वादित्यभिप्रायः ते च स्वयूथ्या वा भवेयुस्तीर्थान्तरीया था, तावुभावपि न वक्तव्यौ साधुना, यत उक्तम्- " यावत्परगुणपरदोषकीर्तने व्यापृतं मनो भवति । तावद्वरं विशुद्धे ध्याने व्ययं मनः कर्तुम् ॥ १ ॥ इत्यादि ।। ३१ ।। किंचान्यत्
Eucation International
दक्खिणा पडिलंभो, अस्थि वा णत्थि वा पुणो ण विद्यागरेज मेहावी, संतिमग्गं च वृहए ॥ ३२ ॥ इच्चेएहिं ठाणेहिं, जिणदिट्ठेहिं संजए । धारयंते उ अप्पाणं, आमोक्खाए परिवज्जासि ॥ ३३॥ त्तियेमि ॥ सूत्रं इति वसुधस्स अणायारणाम पंचममज्झयणं समत्तं ॥
For Parts Only
~ 772~
५ आचार श्रुताध्य.
॥३८४॥