________________
आगम
(०२)
प्रत
सूत्रांक
[६६]
दीप
अनुक्रम
[७०३]
सूत्रकृताङ्के
२ श्रुतस्क न्धे शीलाकीयावृत्तिः,
॥३६९ ॥
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ ४ ], उद्देशक [-], मूलं [६६], निर्युक्ति: [१८०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
भयशीतोष्णोभयस चित्ताचित्तोभयरूपयोनय इत्यर्थः ते च नारकतिर्यङ्नरामरा अपिशब्दा द्विशिष्टकयो नयोऽपि खल्विति विशेपणे, एतद्विशिनष्टि - तज्जन्मापेक्षया सर्वयोनयोऽपि सत्त्वाः पर्यात्यपेक्षया यावन्मनः पर्याप्तिर्न निष्पद्यते तावदसंज्ञिनः करणतः सन्तः पञ्चात्संज्ञिनो भवन्त्येकस्मिन्नेव जन्मनि, अन्यजन्मापेक्षया स्वकेन्द्रियादयोऽपि सन्तः पश्चान्मनुष्यादयो भवन्तीति, तथाभूतकर्मपरिणामात्, न पुनर्भव्याभव्यलवत् व्यवस्थानियमो भव्याभव्यते हि न कर्मायचे अतो नानयोर्व्यभिचार:, ये पुनः कर्मवशगास्ते संज्ञिनो भूखाऽन्यत्रसंज्ञिनो भवन्त्यसंज्ञिनश्व भूला संज्ञिन इति । वेदान्तवादिमतस्य तु प्रत्यक्षेणैव व्यभिचारः समुपलभ्यते, तद्यथा-संज्ञ्यपि कश्चिन्मूर्च्छाद्यवस्थायामसं शिवं प्रतिपद्यते, तदपगमे तु पुनः संज्ञिसमिति, जन्मान्तरे तु सुतरां व्यभि| चार इति । तदेवं संज्ञयसंज्ञिनो कर्मपरत खादन्योऽन्यानुगतिरविरुद्धा, यथा प्रतिबुद्धो निद्रोदयात्स्वपिति सुप्तश्च प्रतिबुध्यते | इत्येवं स्वापप्रतिबोधयोरन्योऽन्यानुगमनमेवमिहापीति । तत्र प्राक्तनं कर्म यदुदीर्णे यच वद्धमास्ते तस्मिन् सत्येव तदविविच्य-अपृथक्कृत्य तथाऽविध्य असमुच्छिद्याऽननुताप्यते चाविविच्यादयश्वत्वारोऽप्येकाथिका अवस्थाविशेषं वाऽऽश्रित्य भेदेन व्याख्यातव्याः । तदेवमपरित्यक्तप्राक्तनकर्मणोऽसंज्ञिकायात् संज्ञिकार्य संक्रामन्ति तथा संज्ञिकाबाद संज्ञिकायमिति संज्ञिकायात्संज्ञिकार्य असंज्ञिकायादसंज्ञिकायं यथा नारकाः सावशेषकर्माण एव नरकादुद्धृत्य प्रतनुवेदनेषु तिर्यक्षूत्पद्यन्ते, एवं देवा अपि प्रायशस्तत्कर्मशेषतया शुभस्थानेषूत्पद्यन्ते इत्यवगन्तव्यं, अत्र च चतुर्भगकसंभवं सूत्रेणैव दर्शयति । साम्प्रतमध्ययनार्थमुपसंजिघृक्षुः प्राकूप्रतिपन्नमर्थं निगमयन्नाह 'जे एते से'त्यादि, ये एते सर्वाभिरपि पर्याप्तिभिः पर्याप्ताः लब्ध्या करणेन च तद्विकलाश्रापर्याप्तकाः अन्योऽन्यसंक्रमभाजः संज्ञिनोऽसंज्ञिनो वा सर्वेऽप्येते मिथ्याचारा अप्रत्याख्यानित्वादित्यभिप्रायः, तथा सर्वजीवेष्वपि
Education Internationa
For Parts Only
~742~
४ प्रत्याख्यानाध्य.
॥३६९॥