________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [४], उद्देशक -], मूलं [६६], नियुक्ति: [१८०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत
सूत्रांक
[६६]
दीप अनुक्रम [७०३]
पिट्टणयाए'ति मुष्टिलोष्टादिप्रहारेण तथा 'तथाविधपरितापनतया' बहिरन्तश्च पीडया, ते चासंझिनोऽपि यद्यपि देशकालस्वभावविप्रकृष्टानां न सर्वेषां दुःखमुत्पादयन्ति तथापि विरतेरभावात्तद्योग्यतया दुःखपरितापक्लेशादेरपतिविरता भवन्ति, तत्सद्भावाच तत्प्रत्ययिकेन कर्मणा वध्यन्ते । तदेवं विप्रकृष्टविषयमपि कर्मबन्धं प्रदश्योपसंजिहीर्षराह-इतिरुपनदर्शने खलुशब्दो वाक्यालङ्कारे विशेषणे वा, किं विशिनष्टि ? ये इमे पृथिवीकायादयोऽसंज्ञिनः प्राणिनस्तेषां न तकों न संज्ञा न प्रज्ञा न मनो
न वाक् न खयं कर्तु नान्येन कारयितुं न कुर्वन्तमनुमन्तुं वा प्रवृत्तिरस्ति, ते चाहनिशममित्रभूता मिथ्यासंस्थिता नित्यं प्रश-118 1 ठव्यतिपातचित्तदण्डा दुःखोत्पादनयावत्परितापनपरिकेशादेरपतिविरता असंन्निनोऽपि सन्तोऽहर्निशं सर्वकालमेव प्राणातिपाते
कर्तव्ये तद्योग्यतया तदसंग्राप्तावपि ग्रामघातकवदुपाख्यायन्ते यावन्मिध्यादर्शनशल्य उपाख्यायन्त इति, उपाख्यानं चासंशिनोऽपि | योग्यतया पापकर्मानिवृत्तेरित्यभिप्रायः । तदेवं दर्शिते दृष्टान्तद्वये तत्प्रतिवद्धमेवार्थशेष प्रतिपादयितुं चोधं क्रियते, तयथाकिमेते सत्त्वाः संशिनोऽसंज्ञिनश्च भव्याभव्यखवानियतरूपा एवाहोवित्संज्ञिनो भूखाऽसंज्ञिख प्रतिपद्यन्ते असंशिनोऽपि संज्ञिखमित्येवं चोदिते सत्याहाचार्य:-'सबजोणियावि खलु इत्यादि, यदिवा सन्त्येवंभूता वेदान्तवादिनो य एवं प्रतिपादयन्ति-'पुरुषः पुरुषसमश्नुते पशुरपि पशुख मिति, तदत्रापि संन्निनः संजिन एव भविष्यन्त्यसंज्ञिनोऽप्यसंज्ञिन इति, तन्मतव्यवच्छेदार्थमाह'सबजोणियावी'त्यादि, यदिवा किं संशिनोऽसन्निकर्मबन्धं प्राक्तने सत्येव कमणि कुर्वन्ति किंवा नेत्येवमसंज्ञिनोऽपि संज्ञिकर्मबन्धं प्राक्तने सत्येव कुर्वन्त्याहोखिन्नेत्येतदाशयाह-'सबजोणियावी'त्यादि, सर्वा योनयो येषां ते सर्वयोनयः संवृतविवृतो। संझिसमुच्चयाय । २ अप्रति विरततःसद्भावात् । ३ सहित्यावाप्ता यह तस्मिन्-वेशदिके । यहा संशयावाप्तिनिमित्त
serserversereedeseseaeiseawatest
~741~