________________
आगम
(०२)
प्रत
सूत्रांक
[ ६४ ]
दीप
अनुक्रम [७०१]
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ ४ ], उद्देशक [-], मूलं [६४], निर्युक्तिः [१८०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
इति । कथमेते षड् जीवनिकायाः कर्मबन्धस्य कारणमित्याह- 'इच्चे एहि 'मित्यादि, इत्येतेषु पृथिव्यादिषु षड्जीवनिकायेषु प्रतिहतं -- विभितं प्रत्याख्यातं नियमितं पापं कर्म येन स तथा, पुनर्नञ्समासेना प्रतिहतप्रत्याख्यातपापकर्मा य आत्मा जन्तुस्तथा तद्भावत्वादेव नित्यं सर्वकालं प्रकर्षेण शठः प्रशठस्तथा व्यतिपाते- प्राणव्यपरोपणे चित्तं यस्य स व्यतिपातचित्तः स्वपरदण्डहेतु| लादण्डः प्रशठश्वासौ व्यतिपातचित्तदण्डचेति कर्मधारय इति एतदेव प्रत्येकं दर्शयितुमाह-- 'तंज' त्यादि, तद्यथा प्राणातिपाते | विधेये प्रशठव्यतिपातचित्तदण्डः, एवं मृषावादादत्तादानमैथुनपरिग्रहेष्वपि वाच्यं यावन्मिथ्यादर्शनशल्यमिति । तेपामिहैकेन्द्रि| यविकलेन्द्रियादीनामनिवृत्तखान्मिथ्याला विरतिप्रमादकपाययोगानुगतखं द्रष्टव्यं तद्भावाच्च ते कथं प्राणातिपातादिदोषवन्तो न भवन्ति, प्राणातिपातादिदोषवत्तया चाव्यक्तविज्ञाना अपि सन्तोऽस्माद्यवस्थायामपि ते कर्मबन्धका एव । तदेवं व्यवस्थिते यत्प्रागुक्तं परेण यथा नाव्यक्तविज्ञानानामशताममनस्कानां कर्मबन्ध इत्येतत् लवते । साम्प्रतमाचार्यः स्वपक्षसिद्धये दृष्टान्तमाह - 'तत्थ खलु भगवया' तत्रेति वाक्योपन्यासार्थमाह, खलुशब्दो वाक्यालङ्कारे, भगवता-ऐश्वर्यादिगुणोपेतेन चतुस्त्रिंशदतिशयसमन्वितेन तीर्थकृता वधकदृष्टान्तः प्रज्ञसः' प्ररूपितः, तद्यथा नाम वधकः कथित्स्यादिति, कुतथिनिमित्तात्कुपितः सन् कस्यचिद्वधपरिणतः कश्चित्पुरुषो भवति, यस्यासौ वधकस्तं विशेषेण दर्शयितुमाह- 'गाहावइस्स वे' त्यादि, गृहस्य पतिगृहपतिस्तत्पुत्रो वा अनेन सामान्यतः प्राकृतपुरुषोऽभिहितः, तस्योपरि कुतश्चिन्निमित्ताद्वषकः कचित्संवृत्तः, स च वधपरिणामपरिणतोऽपि कस्मिंश्चित्क्षणे पापकारिणमेनं घातयिष्यामीति । तथा राज्ञस्तत्पुत्रस्य वोपरि कुपित एतत्कुर्यादित्याह - 'स्वणं निद्दाय' १ योग्येऽवसरे २ अपायस्य
Internationa
For Park Use Only
~731~
www.landbrary org