________________
आगम
(०२)
प्रत
सूत्रांक
[ ६४ ]
दीप
अनुक्रम [७०१]
सूत्रकृताङ्गे
२ श्रुतस्कन्धे शीलाडीयावृत्तिः
॥३६४।।
Education 17
“सूत्रकृत्” - अंगसूत्र -२ ( मूलं+निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ ४ ], उद्देशक [-], मूलं [६४], निर्युक्तिः [१८०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
इत्यादि, क्षणम्-अवसरं 'णिद्दाय'ति प्राप्य लब्ध्वा वध्यस्य पुरे गृहे वा प्रवेक्ष्यामीत्येतदध्यवसायी भवति, तथा क्षणम्-अवसरं छिद्रादिकं वध्यस्य लब्ध्वा तदुत्तरकालं तं बध्यं हनिष्यामीत्येवं संप्रधारयति, एतदुक्तं भवति गृहपतेः सामान्य पुरुपस्य राज्ञो वा | विशिष्टतमस्य कस्यचिद्वधपरिणतोऽप्यात्मनोऽवसरं लब्ध्वाऽपरकार्यक्षणे सति तथा वध्यस्य च छिद्रमपेक्षमाणस्तदवसरापेक्षी कंचित्कालमुदास्ते, स च तत्रोदासीन्यं कुर्वाणोऽपरकार्यं प्रति व्यग्रचेताः संस्तस्मिन्नवसरे वधं प्रत्यस्पष्टविज्ञानो भवति स चैवंभूतोऽपि यथा तं बध्यं प्रति नित्यमेव प्रशठव्यतिपातचित्तदण्डो भवति, एवमविद्यमानैरपि प्रव्यक्तैरशुभैर्येगिरे केन्द्रिय विकलेन्द्रियादयोऽस्य|टविज्ञाना अपि मिथ्याला विरतिप्रमादकपाययोगानुगतत्वात्प्राणातिपातादिदोषवन्तो भवन्तीति न च तेऽवसरमपेक्षमाणा उदासीना अप्यवैरिण इति, एवमस्पष्टचिज्ञाना अप्यवैरिणो न भवन्तीति, अत्र च बध्यवधकयोः क्षणापेक्षया चखारो भङ्गाः, तद्यथावध्यस्थानवसरो १ वधकस्य च २ उभयोर्वाऽनवसरो ३ द्वयोरप्यवसर इति ४ । नागार्जुनीयास्तु पठन्ति - 'अप्पण्णो अक्खणयाए | तस्स वा पुरिसस्स छिदं अलभमाणे णो वहेर, तं जया मे खणो भविस्सइ तस्स पुरिसस्स छिदं लभिस्सामि तथा मे स पुरिसे अवस्सं बहेयवे भविस्सइ, एवं मणो पहारेमाणे ति सूत्रं निगदसिद्धम् ॥ साम्प्रतमाचार्य एवं स्वाभिप्रेतमर्थं परप्रभपूर्वकमाविर्भावयन्नाह - 'से किं नु हुइत्यादि, आचार्यः खतो हि निर्णीतार्थोऽयया परं पृच्छति किमिति परप्रश्ने, नुरिति वितर्के दुशब्दो वाक्यालङ्कारे, किमसौ वधकपुरुषोऽवसरापेक्षी 'छिद्रम्' अवसरं 'प्रधारयन्' पर्यालोचयत्रहर्निशं सुप्तो जाग्रदवस्थो वा 'तस्य' गृहपते राज्ञो वा वध्यस्यामित्रभूतो मिध्यासंस्थितो नित्यं प्रशठव्यतिपात चित्तदण्डो भवत्याहोखिनेति १, एवं पृष्टः परः समतया
१ कश्चित्कारणको पाद्र्ध परिणतोऽप्या० प्र० । २ परचित्तस्था यासूवा-यथार्थेऽयथार्थतोद्भावनरूपा तथा हेतुभूतया ।
For Parts Only
~732~
४ प्रत्याख्याना० अविरतस्य पापबन्धः
॥३६४॥