________________
आगम
(०२)
प्रत
सूत्रांक
[५७]
दीप
अनुक्रम [६८९]
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ ३ ], उद्देशक [-], मूलं [५७], निर्युक्ति: [१७८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
राहारेण वृद्धिमुपगताः स्त्रीपुंनपुंसकानामन्यतमत्वेनोत्पद्यन्ते, ते च जीवा जलचरा गर्भाद्वयुत्क्रान्ताः सन्तस्तदनन्तरं यावद् 'डहर'सि लघवस्तावद स्नेहम् - अपूकायमेवाहारयन्ति आनुपूर्येण च वृद्धाः सन्तो वनस्पतिकार्य तथाऽपरांथ त्रसान् | स्थावरांधाहारयन्ति यावत्पञ्चेद्रियानप्याहारयन्ति तथा चोक्तम् - " अस्ति मत्स्यस्तिमिर्नाम, शतयोजनविस्तरः । तिमिङ्गिकगिलोऽप्यस्ति, तद्विलोऽप्यस्ति राघव ! ॥ १ ॥" तथा ते जीवाः पृथिवीशरीरं कर्दमस्वरूपं क्रमेण वृद्धिमुपगताः सन्त आहारयन्ति, तचाहारितं सत्समानरूपी कृत मान्म सात्परिणामयन्ति, शेषं सुगमं यावत्कर्मोपगता भवन्तीत्येवमाख्यातम् ॥ साम्प्रतं | स्थलचरानुद्दिश्याह-'अहावर 'मित्यादि, अथापरमेतदाख्यातं नानाविधानां चतुष्पदानां तद्यथा एकखुराणामित्यश्वखरादीनां तथा द्विखुराणां गोमहिष्यादीनां तथा गण्डीपदानां हस्तिगण्डकादीनां तथा सनखपदानां सिंहव्याघ्रादीनां यथावीजेन यथावकाशेन सकलपर्याप्तिमवाप्योत्पद्यन्ते ते चोत्पन्नाः सन्तस्तदनन्तरं मातुः स्तन्यमाहारयन्तीति क्रमेण च वृद्धिमुपगताः सन्तोऽपरेषामपि शरीरमाहारयन्तीति शेषं सुगमं यावत्कमपिगता भवन्तीति । साम्प्रतमुरः परिसर्पानुद्दिश्याह- 'नानाविधानां बहुप्रकाराणामुरसा ये प्रसन्ति तेषां तद्यथा-अहीनामजगराणामाशालिकानां महोरगाणां यथावीजलेन यथावकाशेन चोत्पच्याऽण्डजलेन | पोतजखेन वा गर्भाभिर्गच्छन्तीति । ते च निर्गता मातुरूष्माणं वायुं चाहारयन्ति, तेषां च जातिप्रत्ययेन तेनैवाहारेण क्षीरादिनेव वृद्धिरुपजायते, शेषं सुगमं यावदाख्यातमिति । साम्प्रतं भुजपरिसर्पानुद्दिश्याह- नानाविधानां भुजाभ्यां ये परिसर्पन्ति तेषां तद्यथा-गोधानकुलादीनां स्वकर्मोपात्तेन यथावीजेन यथावकाशेन चोत्पत्तिर्भवति, ते चाण्डजलेन पोतजखेन चोत्पन्नास्तदनन्तरं मातुरूष्मणा वायुना चाऽऽहारितेन वृद्धिमुपयान्ति, शेषं सुगमं यावदाख्यातमिति ॥ साम्प्रतं खचरानुद्दिश्याह--नानाविधानां
Jan Eaton International
For Pale Only
~715~