________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [१५], नियुक्ति: [१७८] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक [५५]
दीप अनुक्रम [६८७]
मुलकन्दस्कन्धादीनि नानावर्णानि भवन्तीति चतुर्थ ४, एवमत्रापि वनस्पतियोनिकानां वनस्पतीनामेवंविधार्थप्रतिपादकानि चतुःप्रकाराणि सूत्राणि द्रष्टव्यानीति यावत्ते जीवा बनस्पत्यवयवमूलकन्दस्कन्धादिरूपाः कर्मोपपन्नगा भवन्त्येवमाख्यातम् ॥ साम्प्रतं पक्षोपयुत्पत्रान् वृक्षानाश्रित्याह--अथापरमेतत्पुराऽऽख्यातं यद्वक्ष्यमाणमिह के सवा वृक्षयोनिका भवन्ति, तत्र येते पृथिवीयोनिका वृक्षास्तेष्वेव प्रतिप्रदेशतया येऽपरे समुत्पद्यन्ते तसैकस्य बनस्पतेर्मूलारम्भकस्योपचयकारिणस्ते वृक्षयोनिका इत्यभिधीयन्ते, यदिवा ये ते मूलकन्दस्कन्धशाखाप्रशाखादिकाः पूर्वोक्तदशस्थानवर्तिनस्त एवमभिधीयन्ते, तेषु च वृक्षयोनिकेषु | वृक्षेषु कर्मोपादाननिष्पादितेषु उपयुपरि अध्यारोहन्तीत्यध्यारुहाः-वृक्षोपरिजाता बृक्षा इत्यभिधीयन्ते, ते च वल्लीवृक्षामिधानाः
कामवृक्षाभिधाना वा द्रष्टव्याः, तद्भावे चापरे बनस्पतिकायाः समुत्पद्यन्ते वृक्षयोनिकेषु वनस्पतिष्विति, इहापि प्राग्वञ्चलारि | | सूत्राणि द्रष्टव्यानि, तद्यथा-वृक्षयोनिकेषु वृक्षेष्वपरेऽध्यारुहाः समुत्पद्यन्ते, ते च तत्रोत्पन्नाः खयोनिभूतं वनस्पतिशरीरमाहार| यन्ति, तथा पृथिव्यशेजोवारबादीनां च शरीरकमाहारयन्ति, तथा तच्छरीरमाहारितं सदचित्तं विध्वस्तं विपरिणामितमात्मसा| त्कृतं खकायावयवतया व्यवस्थापयन्ति, अपराणि च तेषामध्यारुहाणां नानाविधरूपरसगन्धस्पर्शपतानि नानासंस्थानानि शरीराणि भवन्ति, ते जीवास्तत्र खकृतकर्मोपपन्ना भवन्तीत्येतदाख्यातमिति प्रथमं सूत्रम्, द्वितीयं खिदम्-अथापरं पुराऽऽख्यातं ये ते प्राग्वृक्षयोनिकेषु वृक्षेषु अध्यारुहाः प्रतिपादितास्तेष्वेवोपरि प्रतिप्रदेशोपचयकर्तारोऽध्यारुहवनस्पतिलेनोपपद्यन्ते, ते च जीवा
अध्यारुहप्रदेशेषत्पन्ना अध्यारहजीवास्तेषां खयोनिभूतानि शरीराण्याहारयन्ति, तत्रापराष्यपि पृथिव्यादीनि शरीराणि आहारयसन्ति अपराणि चाध्यारुहसंभवानामध्यारुहजीवानां नानाविधवर्णकादिकानि शरीराणि भवन्तीत्येवमाख्यातम् , तृतीयं मिदम्
~707~