________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [१५], नियुक्ति: [१७८] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
आहारपरिज्ञाध्य.
प्रत सूत्रांक [५५]
दीप अनुक्रम [६८७]
सूत्रकृताई तात्र द्रष्टव्याः, यदत्र कैश्चित्स्पष्टेऽपि वनस्पतीनां चैतन्येऽसिद्धानकान्तिकखादिकमुक्त स्वदर्शनानुरागात् तदपकर्णनीय, नहि २श्रुतस्क
सम्यगार्हतमताभिज्ञोऽसिद्धविरुद्धानकान्तिकोपन्यासेन व्यामोखते, सर्वस्व कथञ्चिदभ्युपगतसात्प्रतिषिद्धलाचेति । ते च जीवा- ग्वे शीला
स्तत्र बनस्पतिषु तथाविधेन कर्मणा उपपन्नगाः, तच्चेदम्-एकेन्द्रियजातिस्थावरनामवनस्पतियोग्यायुष्कादिकमिति, तत्कर्मोदयेन कीयावृत्तिः तत्रोत्पना इत्युच्यन्ते न पुन: कालेश्वरादिना तत्रोत्पाद्यन्ते इत्येवमाख्यातं तीर्थकरादिभिरिति । एवं तावत्पृथिवीयोनिका वृक्षा
अभिहिताः ॥ साम्प्रतं तयोनिकेष्वेव वनस्पतिषु अपरे समुत्पद्यन्त इत्येतद्दयितुमाह-सुधमेखामी शिष्योद्देशेनेदमाह-अधाप॥३५१॥
रमेतदाख्यातं पुरा तीर्थकरेण यदिवा तस्यैव वनस्पतेः पुनरपरं वक्ष्यमाणमाख्यातं, तद्यथा-'इह' असिन् जगत्येके केचन तथाविधकर्मोदयवर्तिनः 'सत्त्वाः' प्राणिनो वृक्षा एव योनिः-उत्पत्तिस्थानमाश्रयो येषां ते वृक्षयोनिकाः, इह च यत्पृथिवीयोनिकेषु वृक्षेष्वभिहितं तदेतेष्वपि वृक्षयोनिकेषु बनस्पतिषु तदुपचयकर्तृ सर्वमायोज्यं यावदारूयातमिति ॥ साम्प्रतं वनस्पत्यवयवानधिकृत्याह– अथापरमेतदाख्यातं (यदाख्यात) तदर्शयति-'इह' असिन् जगत्येके न सर्वे तथाविधकर्मोदयवर्तिनो वृक्षयोनिकाः | सच्चा भवन्ति तदवयवाश्रिताश्च परे वनस्पतिरूपा एव प्राणिनो भवन्ति, तथा यो होको वनस्पतिजीवः सर्ववृक्षावयवव्यापी भवति, | तस्य थापरे तदवयवेषु मूलकन्दस्कन्धतकशासाप्रवालपत्रपुष्पफलबीजभूतेषु दशपु स्थानेषु जीवाः समुत्पद्यन्ते, ते च तत्रोत्पद्यमाना वृक्षयोनिका वृक्षोद्भवा वृक्षव्युत्क्रमाश्चोच्यन्ते इति, शेषं पूर्ववत् , इह च प्राक्चतुर्विधार्थप्रतिपादकानि सूत्राण्यभिहितानि, तद्यथा-वनस्पतयः पृथिव्याश्रिता भवन्तीत्येकं १, तच्छरीरं अकायादिशरीरं वाऽऽहारयन्तीति द्वितीयं २, तथा विवृद्धास्तदाहारितं शरीरमचित्तं विध्वस्तं च कृखाऽऽत्मसात्कुर्वन्तीति तृतीयं ३, अन्यान्यपि तेषां पृथिवीयोनिकानां वनस्पतीनां शरीराणि
seseseeeeeemedeser
eseeroecemesese
॥३५॥
~706~