________________
आगम
(०२)
प्रत
सूत्रांक
[३५]
दीप
अनुक्रम [६६७]
सूत्रकृताङ्गे
२ श्रुतस्कन्धे शीलाकीयावृत्ति:
॥३३१ ॥
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [३५], निर्युक्ति: [ १६८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
लान् मधुमद्यमांसपरदारासेवनरूपान् भोगासक्ततया च परपीडोत्पादनतो 'वैरायतनानि' वैरानुबन्धान् अनुप्रसूय-उत्पाद्य | विधाय तथा 'संचयित्वा' संचिन्त्योपचित्य 'बहूनि ' प्रभूततरकालस्थितिकानि 'क्रूराणि' क्रूरविपाकानि नरकादिषु यातना - स्थानेषु क्रकचपाटनशाल्मल्यवरोहणततत्रपुपानात्मकानि कर्माण्यष्टप्रकाराणि बद्धस्पृष्टनिधन निकाचनावस्थानि विधाय तेन च संभारकृतेन कर्मणा प्रेर्यमाणास्तत्कर्मगुरवो वा नरकतलप्रतिष्ठाना भवन्तीत्युत्तरक्रिययाऽऽपादित बहुवचन रूपयेति संबन्धः । अस्मि| नेवार्थे सर्वलोकप्रतीतं दृष्टान्तमाह-'से जहाणामए' इत्यादि, तद्यथा नामायोगोलक:- अयस्पिण्डः 'शिलागोलको' वृत्ताश्मशकलं बोदके प्रक्षिप्तः समानः सलिलतलमतिवर्त्य - अतिलङ्घयाधो धरणीतलप्रतिष्ठानो भवति । अधुना दार्शन्तिकमाह-'एवमेवे'त्यादि, यथाऽसावयोगोलको वृत्तत्वाच्छीघ्रमेवाधी यात्येवमेव तथाप्रकारः पुरुषजातः, तमेव लेशतो दर्शयति-वज्रवद्वजं गुरुखात्कर्म तद्रहुल:- तत्प्रचुरो बध्यमानक कर्मगुरुरित्यर्थः तथा घूयत इति धूतं प्राग्वद्धं कर्म तत्प्रचुरः पुनः सामान्येनाह - पद्मयतीति पर्व - पापं तद्बहुला, तथा तदेव कारणतो दर्शयितुमाह-'वैरबहुलो' वैरानुबन्धप्रचुरः, तथा 'अपत्तियं'ति मनसो | दुष्प्रणिधानं तत्प्रधानः, तथा दम्मो मायया परवञ्चनं तदुत्कटः, तथा निकृतिः- माया वेषभाषापरावृत्तिच्छद्मना परद्रोहबुद्धिस्तन्मयः, तथा 'सातिबहुल' इति सातिशयेन द्रव्येणापरस्य हीनगुणस्य द्रव्यस्य संयोगः सातिस्तद्रहुलः- तत्करणप्रचुरः, तथा | अयश:-अश्लाघा असद्वृत्ततया निन्दा, यानि यानि परापकारभूतानि कर्मानुष्ठानानि विधत्ते तेषु तेषु कर्मसु करचरणच्छेदनादिषु अयशोभाग्भवतीति, स एवंभूतः पुरुषः 'कालमासे' स्वायुषः क्षये कालं कृत्वा पृथिव्याः - रत्नप्रभादिकायास्तलम् 'अतिवर्त्य' योजन सहस्रपरिमाणमतिलय नरकतलप्रतिष्ठानोऽसौ भवति ।। नरकस्वरूपनिरूपणा याह
Education International
For Peaks On
~999~
२ क्रिया
स्थानाध्य अधमेपक्षवन्तः
॥३३१||