________________
आगम
(०२)
प्रत
सूत्रांक
[३५]
दीप
अनुक्रम
[६६७]
“सूत्रकृत्” - अंगसूत्र -२ ( मूलं+निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [३५], निर्युक्ति: [ १६८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
वकादिषु जीवनप्रियेषु प्राणिध्वयताः क्रूरकर्माणो मिथ्यादण्डं प्रयुञ्जन्ति । तेषां च क्रूरधियां "यथा राजा तथा प्रजा" इति प्रवादात् परिवारोऽपि तथाभूत एव भवतीति तथा दर्शयितुमाह- 'जावि य से' इत्यादि, याऽपि च तेषां बाह्या पर्षद्भवति, तथथा- 'दासः' खदासीसुतः 'प्रेष्यः' प्रेषणयोग्यो भृत्यदेश्यो 'भृतको' वेतनेनोदकाद्यानयनविधायी तथा 'भागिको 'यः षष्ठांशादिलाभेन कृष्यादौ व्याप्रियते 'कर्मकरः' प्रतीतः तथा नायकाश्रितः कचिद्भोगपरः, तदेवं ते दासादयोऽन्यस्य लघावप्यपराधे गुरुतरं दण्डं प्रयुञ्जन्ति प्रयोजयन्ति च । स च नायकस्तेषां दासादीनां बाह्यपर्षद्भूतानामन्यतरसिंस्तथा लवावप्यपराधे-शब्दार्थवणादिके गुरुतरं दण्डं वक्ष्यमाणं प्रयुक्ते, तद्यथा-इमं दासं प्रेष्यादिकं वा सर्वस्वापहारेण दण्डयत यूयमित्यादि सूत्रसिद्धं यावदि| ममन्यतरेणाशुभेन कुत्सितमारेण व्यापादयत यूयम् । याऽपिच क्रूरकर्मवतामभ्यन्तरा पर्षद्भवति, तद्यथा मातापित्रादिका, मित्रदोषप्रत्ययिक क्रियास्थानवद् नेयं यावदहितोऽयमस्मिन् लोके इति, तथा हि आत्मनोऽपथ्यकारी परस्मिन्नपि लोके, तदेवं ते मातापित्रादीनां स्वल्पापराधिनामपि गुरुतरदण्डापादनतो दुःखमुत्पादयन्ति तथा नानाविधैरुपायैस्तेषां शोकमुत्पादयन्ति-शोकयन्तीत्येवं ते प्राणिनां बहुप्रकारपीडोत्पादकाः यावद्वधबन्धपरिक्लेशादप्रतिविरता भवन्ति । ते च विषयासक्ततया एतस्कुर्वन्तीत्येतदर्शयितुमाह-एवमेव पूर्वोक्तस्वभावा एवं ते निष्कृपा निरनुक्रोशा बाह्याभ्यन्तरपर्षदोरपि कर्णनासा विकर्तनादिना | दण्डपातनस्वभावाः स्त्रीप्रधानाः कामाः स्त्रीकामाः यदिवा स्त्रीषु मदनकामविषयभूतासु कामेषु च शब्दादिषु इच्छाकामेषु मूच्छिता गृद्धा ग्रथिता अध्युपपन्नाः, एते च शक्रपुरन्दरादिवत्पर्यायाः कथञ्चिद्भेदं वाऽऽश्रित्य व्याख्येयाः, ते च भोगासक्ता व्यपगतपरलोकाध्यवसाया यावद्वर्षाणि चतुःपञ्च षट् सप्त वा दश वाऽल्पतरं वा कालं प्रभूततरं वा कालं भुक्खा भोगभोगान् इन्द्रियानुकू
Education Internation
For Parts Only
~665~