________________
आगम
(०२)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[२८]
Jacation
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा - १], निर्युक्तिः [३५] मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०२], अंग सूत्र- [ ०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
न्धादिवादिनो मिथ्यात्वोपहतान्तरात्मानोऽसग्रहाभिनिविष्टाः परमार्थावबोधविकलाः सन्तः संसारचक्रवाले व्याधिमृत्युजराकुले उच्चावचानि स्थानानि गछन्तो गर्भमेष्यन्त्यन्वेपयन्ति वाऽनन्तश' इति, तदिहापि नियत्यज्ञानिज्ञान चतुर्विधकर्मापचयवादिनां तदेव संसारचक्रवालभ्रमणगर्भान्वेषणं प्रतिपाद्यते । परम्परसूत्रं तु 'बुज्झेझे' त्यादि, तेन च सहायं संबन्धः- तत्र बुध्येतेत्येतत् प्रतिपादितम्, इहापि यदाख्यातं नियतिवादिभिस्तदुध्येत, इत्येवं मध्यसूत्रैरपि यथासंभवं संबन्धो लगनीय इति | तदेवं पूर्वोत्तरसंबन्धसंबद्धस्यास्य सूत्रस्याधुनाऽर्थः प्रतन्यते पुनः शब्दः पूर्ववादिभ्यो विशेषं दर्शयति, नियतिवादिनां पुनरेकेषामेतदाख्यातं, अत्र च 'अविवक्षितकर्मका अपि अकर्मका भवन्तीति ख्यातेर्धातोर्भावे निष्टाप्रत्ययः तद्योगे कर्तरि षष्ठी तथायमर्थ:- तैर्नियतिवादिभिः पुनरिदमाख्यातं तेषामयमाशय इत्यर्थः, तद्यथा - ' उपपन्ना' युक्तया घटमानका इति, अनेन च पञ्चभूततजी बसच्छरीरवादिमतमपाकृतं भवति, युक्तिस्तु लेशतः प्राग्दर्शितैव प्रदर्शयिष्यते च पृथक् पृथक् नारकादिभवेषु शरीरेषु वेति, अनेनाप्यात्माद्वैतवादिनिरासोऽवसेयः, के पुनस्ते पृथगुपपन्नाः ?, तदाह- 'जीवाः' प्राणिनः सुखदुःखभोगिनः, अनेन च पञ्चस्कन्धातिरिक्त जीवाभावप्रतिपादक बौद्धमतापक्षेपः कृतो द्रष्टव्यः तथा ते जीवाः 'पृथक पृथक प्रत्येक देहे व्यवस्थिताः सुखं दुःखं च 'वेदयन्ति' अनुभवन्ति, न वयं प्रतिप्राणि प्रतीतं सुखदुःखानुभव निहुमहे, अनेन चाकर्तृवादिनो निरस्ता भवन्ति, अकर्तर्यविकारिण्यात्मनि सुखदुःखानुभवानुपपत्तेरिति भावः । तथैतदसाभिर्नापलप्यते 'अदुवे' ति अथवा ते प्राणिनः सुखं दुःखं चानुभवन्ति, 'विलुप्यन्ते' उच्छिद्यन्ते स्वायुषः प्रच्याव्यन्ते स्थानात्स्थानान्तरं संक्राम्यन्त इत्यर्थः, ततश्चौपपातिकत्वमप्यसाभिस्तेषां १ न कर्मापचय प्र०
For Park Use Only
~63~
jansaray org