________________
आगम
(०२)
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम
[६६१]
सूत्रकृताङ्ग २ श्रुतस्कन्धे शीलाझीयावृत्तिः
॥३१७॥
“सूत्रकृत्” - अंगसूत्र -२ ( मूलं+निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [२९], निर्युक्ति: [ १६८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
प्रथमसमये बद्धस्पृष्टा द्वितीयसमये उदिता वेदिता निर्जीर्णा भवति, 'सेयकाले 'ति आगामिनि तृतीयसमये तत्कर्मापेक्षयाकर्मतापि च भवति, एवं तावद्वीतरागस्येयाप्रत्ययिकं कर्म 'आधीयते' संबध्यते । तदेतत्रयोदशं क्रियास्थानं व्याख्यातं । ये पुनस्तेभ्योऽन्ये प्राणिनस्तेषां सांपरायिको बन्धः, ते तु यानि प्रागुक्तानीर्यापथवर्ज्यानि द्वादश क्रियास्थानानि तेषु वर्तन्ते तेषां च तद्वर्तिनामसुमतां मिथ्याला विरतिप्रमादकपाययोगनिमित्तः सांपरायिको बन्धो भवति, यत्र च प्रमादस्तत्र कपाया [योगार्थ ] नियमाद्भवन्ति, कपायिणश्च योगाः, योगिनस्त्वेते भाज्याः, तत्र प्रमादकषायप्रत्ययिको बन्धोऽनेकप्रकारस्थितिः, तद्रहितस्तु केवलयोगप्रत्ययिको द्विसमयस्थितिरेवेर्याप्रत्ययिक इति स्थितम् । एतानि त्रयोदश क्रियास्थानानि न भगवद्वर्धमानखामिनेवोक्तानि अपि सन्यैरपीत्येतदर्शयितुमाह- 'से बेमी' त्यादि, सोऽहं ब्रवीमीति, यत्प्रागुक्तं तद्वा बचीमीति, तद्यथा-ये तेऽतिक्रान्ता ऋषभादयस्तीर्थकृतो ये च वर्तमानाः क्षेत्रान्तरे सीमन्धरस्वामिप्रभृतयो ये चागामिनः पद्मनाभादयोऽर्हन्तो भगवन्तः सर्वेऽपि ते पूर्वोक्तान्येतानि त्रयोदश क्रियास्थानान्यभाषिषुः भाषन्ते भाषिष्यन्ते च । तथा तत्स्वरूपतस्तद्विपाकतथ प्ररूपितवन्तः प्ररूपयन्ति प्ररूपयिष्यन्ति च । तथैतदेव त्रयोदशं क्रियास्थानं सेवितवन्तः सेवन्ते सेविध्यन्ते च यथा हि जम्बूद्वीपे सूर्यद्वयं तुल्यप्रकाशं | भवति यथा वा सदृशोपकरणाः प्रदीपास्तुल्यप्रकाशा भवन्ति एवं तीर्थकृतोऽपि निरावरणवाद कालत्रयवर्तिनोऽपि तुल्योपदेशा भवन्ति । साम्प्रतं त्रयोदशसु क्रियास्थानेषु यन्नाभिहितं पापस्थानं तद्विभणिपुराह्
अदुत्तरं च णं पुरिसविजयं विभंगमाइक्खिस्सामि, इह खलु णाणापण्णाणं णाणाछंदाणं णाणासीलाणं १०ः स्थितितः प्र०१ 'मिथ्या न भाषामि विशालनेत्रे ।' इति वत्परस्मै ।
Education Internation
अथ पापस्थानानी आरभ्यते
For Park Use Only
~638~
२ क्रियास्थानाध्य० १३ ईयॉपचिकक्रिया
॥३१७॥