________________
आगम
(०२)
प्रत
सूत्रांक
[१५]
दीप
अनुक्रम [६४७]
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ १ ], उद्देशक [-], मूलं [१५], निर्युक्ति: [ १६१] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
| जलमालकद्दमालं बहुविह्वल्लिगहणं च पुक्खरिणि । जंघाहि व बाहाहि व नावाहि व तं दुरवगाहं ॥ १६९ ॥ | परमं उल्लंघेत्तुं ओयरमाणस्स होइ बाबत्ती । किं नत्थि से उवाओ जेणुल्लंघेन अविवन्नो ॥ १६२ ॥ विज्जा व देवकम्मं अहवा आगासिया विउचणया । पउम उल्लंघेत्तुं न एस इणमो जिणक्खाओ ॥ १६३ ॥ सुद्धपओगविजा सिद्धा उ जिणस्स जाणणा विज्जा । भवियजणपोंडरीया उ जाए सिद्धिगतिमुर्वेति ॥ १६४ ॥
इह 'उपमा' दृष्टान्तः 'पौण्डरीकेण' श्वेतशतपत्रेण कृतः, तस्येहाभ्यर्हितखात् तस्यैव चोपचयेन सर्वावयवनिष्पत्तिर्यावद्विशिष्टोपायेनोद्धरणं, दार्शन्तिकाधिकारस्तु पुनरत्र भणितः - अभिहितश्चक्रवर्त्यादिर्भव्यस्य जिनोपदेशेन सिद्धिरिति, तस्यैव पूज्यमानखा| दिति । पूज्यत्वमेव दर्शयितुमाह-'सुरमय' इत्यादि, सुरादिषु चतुर्गतिकेषु जन्तुषु मध्ये मनुजाश्वरित्रस्य सर्वसंवररूपस्य प्रभवःशक्ता वर्तन्ते, न शेषाः सुरादयः तेष्वपि मनुजेषु महाजननेतारचक्रवर्त्यादयो वर्तन्ते तेषु प्रबोधितेषु प्रधानानुगामिलात् इतरजनः सुप्रतिबोध एव भवतीत्यतोऽत्र चक्रवर्त्यादिना पौण्डरीककल्पेनाधिकार इति । पुनरप्यन्यथा मनुजप्राधान्यं दर्शयितुमाह'अविय हु' इत्यादि, गुरुकर्माणोऽपि मनुजा आसंकलितनर कायुषोऽपि नरकगमन योग्या अपि तेऽप्येवंभूताजिनोपदेशात्तेनैव भवेन समस्त कर्मक्षयात् सिद्धिगामिनो भवन्तीति । तदेवं दृष्टान्तदार्शन्तिकयोस्तात्पर्यार्थ प्रदर्श्य दृष्टान्तभूत पौण्डरीकाऽऽधारायाः पुष्करिण्या दुरवगाहितं सूत्रालापकोपाचं नियुक्तिकृदर्शयितुमाह- 'जलमाले' त्यादि, जलमालाम्- अत्यर्थप्रचुरजलां तथा कर्दममालाम्-अप्रतिष्ठिततलतया प्रभूततरपङ्कां तथा बहुविधवल्लिगहनां च पुष्करिणीं जङ्घाभ्यां वा बाहुभ्यां वा नावा वा दुस्तरां पुष्करिणीं, दृष्ट्वेति क्रियाध्याहारः, किंचान्यत्- 'पउमं' इत्यादि, तन्मध्ये पद्मवरपौण्डरीकं गृहीला समुचरतोऽवश्यं व्यापत्तिः प्राणानां भवेत्,
Education Internation
For Parts Only
~609~