________________
आगम
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [९], नियुक्ति: [१५७]
(०२)
प्रत
सूत्रांक
कृष्णादीनां वर्णानां मध्ये कतमवर्णवर्ती ?, तथा द्वयोर्गन्धयोर्मध्ये किंगन्धः?, पण्णां रसानां मध्ये कतमरसवती ?, तथाऽष्टानां स्प| शानां मध्ये कतमे स्पर्शे वर्तते । तदेवं संस्थानवर्णगन्धरसस्पर्शान्यरूपतया कथमप्यसावगृह्यमाणोऽसन्नसी, तथापि केनापि प्रकारेण संवेद्यमानोऽपि येषां तत्स्थाख्यातं भवति यथाऽन्यो जीवोऽयच्छरीरकमित्ययं पक्षः, तसात्पृथगविद्यमानसाचे शरीरात्पृथगात्म-10 वादिनो नैव वक्ष्यमाणनीत्याऽऽत्मानमुपलभन्ते ।। तयथा नाम कश्चित्पुरुषः 'कोशतः परिवारादू 'अर्सि' खड्गम् 'अभिनिवेत्ये 18 समाकृष्पान्येषामुपदर्शयेत् , तद्यथा-अयमायुष्मन् ! 'असिः खगोऽयं च 'कोश' परिवारः, एवमेव जीवशरीरयोरपि नास्त्युपदशयिता, तद्यथा-अयं जीव इदं च शरीरमिति, न चास्त्येवमुपदर्शयिता कश्चिद् अतः कायान्न भिन्नो जीव इति । असिंश्चार्थे । बहवो दृष्टान्ताः सन्तीत्यतो दर्शयितुमाह-तद्यथा वा कश्चित्पुरुषो 'मुन्नात् तृणविशेषात् 'इसिय'ति तद्गर्भभूतां शलाका पृथ-18
कृत्य दर्शयेत् , तथा मांसादस्थि तथा करतलादामलकं तथा दनो नवनीतं तिलेभ्यस्तैलं इति तथेक्षो रस तथाऽरणितोऽग्निमभिनिवैसे-पृथकृत्य दर्शयेद, एवमेव शरीरादपि जीवमिति, न चास्त्येवमुपदर्शयिताऽतोऽसनात्मा शरीरात्पृथगसंवेद्यमानश्चेति ।। प्रयोगश्चात्र-सुखदुःखभाक् परलोकानुयायी नास्त्यात्मा, तिलशश्छिद्यमानेऽपि शरीरके पृथगनुपलब्धेः, घटात्मवत् , व्यतिरेकेण च कोशखगवत् , तदेवं युक्तिभिः प्रतिपादितेऽप्यात्माभावे येषां पृथगात्मवादिना खदर्शनानुरागादेतत्स्वाख्यातं भवति,
तद्यथा-अन्यो जीवः परलोकानुयायी अमूर्तः, अन्यच्च तद्भववृत्ति मूर्तिमच्छरीरम् , एतच्च पृथङ् नोपलभ्यते तसाचन्मिध्या लयकैश्चिदुच्यते यथाऽस्त्यात्मा परलोकानुयायीति ॥ एतदध्यवसायी च 'स' लोकायतिका खतः प्राणिनामेकेन्द्रियादीनां
दीप अनुक्रम [६४१]
Reseree
wjanmiorary.org
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] "सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~561~