________________
आगम
(०२)
प्रत
सूत्रांक
[s]
दीप
अनुक्रम
[६४१]
सूत्रकृताने
२ श्रुतस्क न्धे शीलाकीयावृत्तिः
॥२७९॥
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [९], निर्युक्ति: [१५७]
Education intimational
-
'हन्ता' व्यापादको भवति, प्राणातिपाते दोषाभावमभ्युपगम्यान्येषामपि प्राण्युपघातकारिणामुपदेशं ददाति, तद्यथा-प्राणिनः खड्गादिना घातयत, पृथिव्यादिकं खनतेत्यादि सुगमं यावद 'एतावानेव' शरीरमात्र एव जीवः, ततः परलोकिनोऽभावान्नास्ति परलोकः, तदभावाच्च यथेष्टमासत (ध्वं ), तथा चोक्तम् - "पिब खाद च साधु शोभने !, यदतीतं वरगात्रि ! तव ते । न हि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ||१||" तदेवं परलोकयायिनो जीवस्याभावान्न पुण्यपापे स्तः नापि परलोक इत्ययं येषां पक्षस्ते लोकायतिकास्तज्जीवतच्छरीरवादिनो नैवेतद्वक्ष्यमाणं विप्रतिवेदयन्ति-अभ्युपगच्छन्ति, तद्यथा क्रियां वा सदनुष्ठा| नात्मिकाम् अक्रियां वा-असदनुष्ठानरूपाम्, एवं नैव ते विप्रतिवेदयन्ति, यदि हि आत्मा तत्क्रियावाप्तकर्मणो भोक्ता स्थातोऽ| पायभयात्सदनुष्ठानचिन्ता स्यात्, तदभावाच्च सत्क्रियादिचिन्ताऽपि दूरोत्सादितैव । तथा सुकृतं दुष्कृतं वा कल्याणमिति वा | पापमिति वा साधु कृतमसाधु कृतमित्यादिका चिन्तैव नास्ति, तथाहि सुकृतानां कल्याणविपाकिनां साधुतयाऽवस्थानं दुष्क| तानां च पापचिपा किनामसाधुलेनावस्थानम्, एतदुभयमपि सत्यात्मनि तत्फलभ्रुजि संभवति, तदभावाच्च कुतोऽनर्थको हिताहितप्राप्तिपरिहारौ स्यातां ?, तथा सुकृतेन- कल्याणेन साध्वनुष्ठानेनाशेषकर्मक्षयरूपा सिद्धिस्तद्विपर्ययेणासिद्धिः, तथा दुष्कृतेन-पा पानुबन्धिना असाध्वनुष्ठानेन नरकोऽनरको वा तिर्यक्रनरामरगतिलक्षणः स्यादित्येवमात्मिका चिन्तैव न भवेत्, तदाधारस्यात्म सद्भावस्थानभ्युपगमादिति भावः । पुनरपि लोकायतिकानुष्ठानदर्शनायाह- 'एवं ते' इत्यादि 'एवम्' अनन्तरोक्तेन प्रकारेण तेनास्तिका आत्माभावं प्रतिपद्य विरूपं नानाप्रकारं रूपं स्वरूपं येषां ते तथा कर्मसमारम्भाः- सावधानुष्ठानरूपाः पशुघातमां| सभक्षणसुरापान निर्लाञ्छनादिकास्तैरेवंभूतैर्नानाविधैः कर्मसमारम्भः कृषीवलानुष्ठानादिभिर्विरूपरूपान् कामभोगान् 'समारभ
For Fans at Use Only
मुनि दीपरत्नसागरेण संकलित ...... आगमसूत्र [०२] अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
~ 562~
१ पुण्डरीकाध्य० त
जीवतच्छरीवादी
॥२७९ ॥
www.pincibrary.org