________________
आगम
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-], मूलं [४], नियुक्ति: [१४१]
(०२)
प्रत
सूत्रांक
||४||
साभावादित्यभिप्रायः । तथा द्विधाऽपी'ति द्रव्यतो भावतश्च, तत्र द्रष्यस्रोतांसि यथास्वं विषयेष्विन्द्रियप्रवृत्तयः भावस्रोतांसि तु शब्दादिष्वेवानुकूलप्रतिकूलेषु रागद्वेषोद्भवास्तान्युभयरूपाण्यपि स्रोतांसि संवृतेन्द्रियतया रागद्वेषाभावाच्च परिच्छिन्नानि येन स परिच्छिन्नस्रोताः, तथा नो पूजासत्कारलाभार्थी किंतु निर्जरापेक्षी सर्वास्तपश्चरणादिकाः क्रिया विदधाति, एतदेव दर्शयतिधर्म:-श्रुतचारित्राख्यस्तेनार्थः स एव वार्थों धर्मार्थः स विद्यते यस्थासौ धमार्थीति, इदमुक्तं भवति-न पूजाद्यर्थ क्रियासु प्रवतेते अपितु धर्मार्थीति । किमिति, यतो धर्म यथावत्तत्फलानि च स्वर्गावाप्तिलक्षणानि सम्यक् वेत्ति, धर्म च सम्यग् जानानो | यत्करोति तदर्शयति-नियागो-मोक्षमार्गः सत्संयमो वा तं सर्वात्मना भावतः प्रतिपन्नः नियागपडिवमोत्ति, तथाविधश्च यत्कुर्यात् र तदाह-समि(म)यं ति समतां समभावरूपां वासीचन्दनकल्पां 'चरेत् सततमनुतिष्ठेत् । किंभूतः सन् ?, आहू-दान्तो द्रव्यभूतो ग्युस्मष्टकायन, एतद्गुणसमन्वितः सन् पूर्वोक्तमाहनश्रमणभिक्षुशब्दानां यत् प्रवृत्तिनिमित्तं तत्समन्वितब निर्ग्रन्थ इति वाच्यः ।। तेऽपि माहनादयः शब्दा निर्गन्थशब्दप्रवृत्तिनिमित्ताविनाभाविनो भवन्ति, सर्वेऽप्येते भिमन्यजना अपि कथश्चिदेकार्थी | | इति ॥५॥ साम्प्रतमुपसंहाराथेमाह-सुधर्मस्वामी जम्बूखामिप्रभृतीनुद्दिश्येदमाह-से' इति तचन्मया कथितमेवमेव जानीत | 8| यूयं, नान्यो मद्वचसि विकल्पो विधेयः, यसादह सर्वेशाज्ञया ब्रवीमि । न च सर्वज्ञा भगवन्तः परहितैकरता भयात्रातारो। | रागद्वेषमोहान्यतरकारणाभावादन्यथा बुवते, अतो यन्मयादितः प्रभृति कथितं तदेवमेवावगच्छतेति । इतिः परिसमाप्त्यर्थे । ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, साम्प्रतं नयाः, ते च नैगमादयः सप्त, नैगमख सामान्यविशेषात्मकतया संग्रहव्यवहारप्रवे-18 शासंग्रहादयः षट्, समभिरूढेत्थंभूतयोः शब्दनयप्रवेशान्नैगमसंग्रहव्यवहारर्जुसूत्रशब्दाः पञ्च, नैगमस्याप्यन्तर्भावाचवारो,
दीप अनुक्रम [६३२-२]
JABERatinintamational
wjanmiorary.org
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] "सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~535~