________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१४], उद्देशक [-], मूलं [२०], नियुक्ति: [१३१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] “सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||२०||
करण्डकल्पः कुत्रिकापणकल्पो वा चतुर्दशपूर्विणामन्यतरोवा कश्चिदाचार्यादिभिः प्रतिभानवान्-अर्थविशारदस्तदेवंभूतः कुत्तचिनिमित्तात् श्रोतुः कुपितोऽपि सूत्रार्थ 'न छादयेत्' नान्यथा व्याख्यानयेत् स्वाचार्य वा नापलपेत् धर्मकां वा कुर्वन्नार्थ छादये आत्मगुणोत्काभिप्रायेण वा परगुणान छादयेत् तथा परगुणान्न लूपयेत्-न विडम्बयेत् शाखार्थ वा नापसिद्धान्तेन व्याख्यानयेत तथा समस्तशाखवेत्ताऽहं सर्वलोकविदितः समस्तसंशयापनेता न मत्तुल्यो हेतुयुक्तिभिरथेप्रतिपादयितेत्येवमात्मकं मानम्अभिमानं गर्व न सेवेत, नाप्यात्मनो बहुश्रुतलेखेन तपखिलेन वा प्रकाशनं कुर्यात् , चशब्दादन्यदपि पूजासत्कारादिकं परिहरेत् , |तथा न चापि 'प्रज्ञावान्' सश्रुतिकः 'परिहासं' केलिप्रायं ब्रूयाद्, यदिवा कथश्चिदचुध्यमाने श्रोतरि तदुपहासप्रायं परिहास न विदध्यात् तथा नापि चाशीर्वादं बहुपुत्रो बहुधनो [बहुधों ] दीर्वायुस्तं भूया इत्यादि व्यागृणीयात्, भाषासमितियुक्तेन भाव्यमिति ।। १९ ॥ किंनिमित्तमाशीर्वादोन विधेय इत्याह-भूतेषु-जन्तुषूपमर्दशङ्का भूताभिशङ्का तयाऽशीर्वादं 'सावध | सपापं जुगुप्समानो न भूयात् तथा गास्वायत इति गोत्रं-मौनं वासयमस्त 'मनपदेन' विद्यापमार्जन विधिना 'न निर्वाहयेत्' न निःसारं कुर्यात् । यदिवा मोत्रं-जन्तूनां जीवितं 'मनपदेन राजादिगुप्तभाषणपदेन राजादीनामुपदेशदानतो 'न निर्वाहयेत्' नापनयेत्, एतदुक्तं भवति-ज राजादिना साध जन्तुजीवितोपमर्दक मत्रं कुर्याद, तथा प्रजायन्त इति प्रजा:-जन्तवस्तासु प्रजासु 'मनुजो मनुष्यो व्याख्यानं कुर्वन् धर्मकथां वा न 'किमपि' लाभपूजासत्कारादिकम् 'इच्छेद्' अभिलोत, तथा कुत्सि. तानाम-असाधूनां धर्मान्-वस्तुदानतर्पणादिकान् 'म संवदेत्' न याद् यदिवा नासाधुधर्मान् जुवन् संवादयेद् अथवा |धर्मकथा व्याख्यानं वा कुर्वन् प्रजात्रात्मश्लाघारूपां कीर्ति नेच्छेदिति ॥ २०॥ किश्चान्यत्
दीप अनुक्रम
[५९९]
~501~