________________
आगम
(०२)
प्रत
सूत्रांक
||२०||
दीप
अनुक्रम
[ ५९९ ]
सूत्रकृताङ्गं शीलाङ्का
चाययवृ
तियुतं
॥२४८||
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+निर्युक्ति:+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ १४ ], उद्देशक [-], मूलं [२०], निर्युक्ति: [ १३१] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ०२], अंग सूत्र -[०२ ] “सुत्र कृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
वर्तयन् न उपैति यदिवा मरणं प्राणत्यागलक्षणं मारस्तं बहुशो नोपैति, तथाहि अप्रतिपतितसम्यक्त्व उत्कृष्टतः सप्तष्टौ वा | भवान् म्रियते नोर्ध्वमिति ॥१७॥ तदेवं गुरुकुलनिवासितया धर्मे सुस्थिता बहुश्रुताः प्रतिभानवन्तोऽर्थविशारदाश्च सन्तो यत्कुर्वन्ति तदर्शयितुमाह- सम्यक् ख्यायते - परिज्ञायते यया सा संख्या - सद्बुद्धिस्तया स्वतो धर्म परिज्ञायापरेषां यथावस्थितं 'धर्म' श्रुतचारित्राख्यं 'व्यागृणन्ति' प्रतिपादयन्ति यदिवा खपरशक्ति परिज्ञाय पर्षदं वा प्रतिपाद्यं चार्थ सम्यगवबुध्य धर्मं प्रतिपाद| यन्ति । ते चैवंविधा बुद्धाः - कालत्रयवेदिनो जन्मान्तरसंचितानां कर्मणामन्तकरा भवन्ति अन्येषां च कर्मापनयनसमर्था भवन्ती| ति दर्शयति - ते यथावस्थितधर्मप्ररूपका 'द्वयोरपि' परात्मनोः कर्मपाशविमोचनया स्नेहादिनिगडविमोचनया वा करणभूतया | संसारसमुद्रस्य पारगा भवन्ति । ते चैवंभूताः ? 'सम्यक शोधितं' पूर्वोत्तराविरुद्धं 'प्रश्नं' शब्दमुदाहरन्ति तथाहि पूर्व बुद्ध्या पर्यालोच्य कोऽयं पुरुषः कस्य चार्थस्य ग्रहणसमर्थोऽहं वा किंभूतार्थप्रतिपादनशक्त इत्येवं सम्यक् परीक्ष्य व्याकुर्यादिति, अथवा | परेण कश्चिदर्थं पृष्टस्तं प्रश्नं सम्यग् परीक्ष्योदाहरेत् सम्यगुत्तरं दद्यादिति, तथा चोक्तम्- "आयरिया व धारिएण अत्थेण झरियमुणिएणं । तो संघमज्झयारे ववहरिडं जे सुहं होंति ॥ १ ॥" तदेवं ते गीतार्था यथावस्थितं धर्मं कथयन्तः स्वपस्तारका | भवन्तीति ॥ १८ ॥ स च प्रश्नमुदाहरन् कदाचिदन्यथापि ब्रूयादतस्तत्प्रतिषेधार्थमाह- 'स' प्रश्नस्योदाहर्ता सर्वार्थाश्रयत्वाद्रव
१ अनुभवा चरिते इति वचनाचारित्रयुतं सम्यक्त्वं परं प्रतिपाति वदिति भप्रतिपतितसम्यक्त्व इति जघन्याचया वा जन्मभिरष्टयेकैः इति वचनात्, सप्ताहाविति मनुष्यकायस्थित्यपेक्षं सम्यक्लभ वास्तु पत्योपमासंख्य मागमिताः २ आचार्य सकाशाद् अवधारितेनार्थेन सारकेण शात्रा च तदः मध्ये व्यवह सुखं भवति ॥ १ ॥
Education International
For Park Use Only
~500~
१४ ग्रन्थाध्ययनं.
॥२४८॥