________________
आगम
(०२)
प्रत
सूत्रांक
||22||
दीप
अनुक्रम [५५६ ]
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [२२], निर्युक्ति: [ १२१] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ०२], अंग सूत्र -[०२ ] “सुत्र कृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
कारे जन्ये प्रकृतिवैपम्योत्पादने कविद्धेतुः, तद्व्यतिरिक्तवस्त्वन्तरानभ्युपगमाद्, आत्मनश्चाकर्तृलेनाकिञ्चित्करतात्, स्वभाववैषम्याभ्युपगमे तु निर्हेतुकलापचेर्नित्यं सत्त्वमसत्वं वा स्यादिति, उक्तं च--"नित्यं सत्यमसच्चं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां, कादाचित्कत्वसंभवः ॥ १ ॥” अपिच --- महदहङ्कारौ संवेदनादभित्रौ पश्यामः तथाहि बुद्धिरध्यवसायोऽहङ्कारश्चाहं मुख्यहं दुःखीत्येवमात्मकः प्रत्ययः, तयोविद्रूपतयाऽऽत्मगुणलं, न जडरूपायाः प्रकृतेर्विकारावेताविति । अपिच४ येयं तन्मात्रेभ्यो भूतोत्पत्तिरिष्यते, तद्यथा- गन्धतन्मात्रात्पृथिवी रसतन्मात्रादापः रूपतन्मात्रात्तेजः स्पर्शतन्मात्राद्वायुः शब्दतन्मात्रादाकाशमिति, साऽपि न युक्तिक्षमा, यतो यदि बाह्यभूताश्रयेणैतदभिधीयते, तदयुक्तं, तेषां सर्वदा भावात्, न कदाचि९ दनीदृशं जगदितिकृला, अथ प्रतिशरीराश्रयणादेतदुच्यते, तत्र किल लगस्थि कठिनलक्षणा पृथ्वी लेष्मास द्रवलक्षणा आपः पक्तिलक्षणं तेजः प्राणापानलक्षणो वायुः शुषिरलक्षणमाकाशमिति, तदपि न युज्यते, यतोऽत्रापि केषाञ्चिच्छरीराणां शुक्राटकप्रभावोत्पत्तिः, न तत्र तन्मात्राणां गन्धोऽपि समुपलक्ष्यते, अदृष्टस्यापि कारण कल्पनेऽतिप्रसङ्गः स्यात्, अण्डजोजिआङ्कुरादीनामप्यन्यत एवोत्पत्तिर्भवन्ती समुपलक्ष्यते, तदेवं व्यवस्थिते प्रधानमहदहङ्कारादिकोत्पत्तिर्या सांख्यैः स्वप्रक्रिययाऽऽभ्युपगम्यते तसैर्निर्युक्तिकमेव स्वदर्शनानुरागेणाभ्युपगम्यत इति । आत्मनश्वाकर्डलाभ्युपगमे कृतनाशोऽकृतागमश्च स्यात् बन्धमोक्षाभावश्च, | निर्गुणखे च ज्ञानशून्यतापत्तिरित्यतो बालप्रलापमात्रं, प्रकृतेश्वाचेतनाया आत्मार्थं प्रवृत्तिर्युत्तिविकलेति । अथ बौद्धमतं निरूप्यतेतत्र हि पदार्था द्वादशायतनानि, तद्यथा चक्षुरादीनि पञ्च रूपादयच विषयाः पञ्च शब्दायतनं धर्मायतनं च, धर्माः- सुखादयो 1 [वैधर्म्या० प्र० । २ गन्धः संबन्धलेशयोः । ३ तन्मात्रापचकस्य । ४ मानसमिति शब्दान्तरं तस्य शब्दमयविचारात्मकत्वात् ।
Education Internation
For Pasta Use Only
~461~