________________
आगम
(०२)
प्रत
सूत्रांक
||२२||
दीप
अनुक्रम [५५६]
सूत्रकृताङ्ग शीलाङ्का
चाय
तियुतं
॥२२८॥
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [२२], निर्युक्ति: [ १२१] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र - [०२], अंग सूत्र- [ ०२ ] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
-
| कथञ्चित्तदव्यतिरेकाद् द्रव्यग्रहणेनैव ग्रहणमिति । अथ विशेषाः, ते चात्यन्तव्यावृत्तिबुद्धिहेतुत्वेन परैराश्रीयन्ते तत्रेदं चिन्त्यतेया तेषु विशेषबुद्धिः सा नापरविशेषहेतकाऽऽश्रयितव्या, अनवस्थाभयात् स्वतः समाश्रयणे च तद्वद् द्रव्यादिष्वपि विशेषबुद्धिः स्यात्किं द्रव्यादिव्यतिरिक्तैर्विशेषैरिति १, द्रव्याव्यतिरिक्तास्तु विशेषा अस्माभिरप्याश्रीयन्ते, सर्वस्य सामान्यविशेषात्मकत्वादिति । एतत्तुं प्रक्रियामात्रं, तद्यथा - नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, नित्यद्रव्याणि च चतुर्विधाः परमाणवो मुक्तात्मानो मुक्तमनांसि च, ईति नियुक्तिकत्वादुपकर्णयितव्यमिति । समवायस्तु-अयुतसिद्धानामाधाराधेयभूतानां य इह प्रत्ययहेतुः स समवाय इत्युच्यते, असावपि नित्यथैकथाश्रीयते, तस्य च नित्यत्वात्समवायिनोऽपि नित्या आपद्येरन्, तदनित्यत्वे च तस्याप्यनित्यत्वापत्तिः, तदाधाररूपत्वात्तस्य तदेकत्वाच्च सर्वेषां समवायिनामेकत्वापत्तिः, तस्य चानेकत्वमिति । किञ्च-अयं समवायः संबन्धः, तस्य च द्वित्वा युतसिद्धत्वमेव दण्डदण्डिनोरिव, वीरणानां च कटोत्पत्तौ तद्रूपतया विनाशः कटरूपतयोत्पचिरन्चयरूपतया व्यव| स्थानमिति दुग्धदभोरिवेत्येवं वैशेषिकमतेऽपि न सम्यक् पदार्थावस्थितिरिति ॥ साम्प्रतं सात्यदर्शने तत्त्वनिरूपणं प्रक्रम्यते तत्र प्रकृत्यात्मसंयोगात्सृष्टिरुपजायते, प्रकृतिश्र सच्चरजस्तमसां साम्यावस्था ततो महान् महतोऽहङ्कारः अहङ्कारादेकादशेन्द्रियाणि पञ्चतन्मात्राणि तन्मात्रेभ्यः पञ्च भूतानीति, चैतन्यं पुरुषस्य स्वरूपं स चाकर्ता निर्गुणो भोक्तेति । तत्र परस्परविरुद्वानां सत्वादीनां गुणानां प्रकृत्यात्मनां नियामकं गुणिनमन्तरेणैकत्रावस्थानं न युज्यते, कृष्णसितादिगुणानामिव न च महदादिवि - १ वक्ष्यमाणं । २ एतन्निरूपणं । ३ अपरविशेषभावयोदयात् । ४ युग्मयोर्मित्रत्वेन ५ पृथग्भूता वर्गो भाडा, वर्णमयानि द्रव्याणि तेषां गुणानां वा स्वयं द्रव्यान्तरेण यथा नामस्थानं विरुद्धानां ।
Education International
For Parts Only
~460~
१२ समय
सरणाध्य० वैशेषिकतत्वनिरास:
॥२२८॥