SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||22|| दीप अनुक्रम [५५६ ] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+निर्युक्ति:+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [२२], निर्युक्ति: [ १२१] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ०२], अंग सूत्र -[०२ ] “सुत्र कृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः | जलवतो भावो जलवत्त्वमित्यत्र घटसामान्यरक्तगुणक्रियाद्रव्यसंबन्धरूपाणां गुणानां सद्भावात् द्रव्ये पृथुयुभाकार उदकाद्याहरणक्षमे कुटकाख्ये शब्दस्य घटादेरभिनिवेशस्तत्र त्वतलौं, इह च रक्ताख्यः को गुणो ? यत् सद्भावात्, कतरच्च तद् द्रव्यं यत्र शब्दनिवेशो | येन भावप्रत्ययः स्यादिति । किमिदानीं रक्तस्य भावो रक्तत्वमिति न भवितव्यं ?, भवितव्यमुपचारेण, तथाहि--रक्त इत्येतद्रव्यत्वेनोपचर्य तस्य सामान्यं भाव इति रक्तत्वमिति, न चोपचारस्तत्त्व चिन्तायामुपयुज्यते, शब्दसिद्धावेव तस्य कृतार्थत्वादिति शब्द श्राकाशस्य गुण एव न भवति, तस्य पौगलिकत्वाद्, आकाशस्य चामूर्तत्वादिति । शेषं तु प्रक्रियामात्रं न साघनदूषणयोरङ्गस् । क्रियाऽपि द्रव्यसमवायिनी गुणवत्पृथमाश्रयितुं न युक्तेति । अथ सामान्यं तद्विधा परमपरं च तत्र परं महासत्ताख्यं द्रव्यादिपदार्थव्यापि, तथाचोक्तम्- "सदिति यतो द्रव्यगुणकर्मसु सा सत्ता" अपरं च द्रव्यत्वगुणत्व कर्मत्वात्मक, तत्र न तावन्महासत्तायाः पृथक्पदार्थता युज्यते, यतस्तस्यां यः सदिति प्रत्ययः स किमपरसत्तानिबन्धन उत्त स्वत एव १, तत् यद्यपरसत्तानिबन्धनस्तत्राप्ययमेव विकल्पोऽतोऽनवस्था, अथ स्वत एव ततस्तद्वद् द्रव्यादिष्वपि खत एव सत्प्रत्ययो भविष्यतीति किमपैरसतयाऽजागलस्तन कल्पया विकल्पितया ?, किश्च द्रव्यादीनां किं सतां सत्तया सत्प्रत्यय उतासतां १, तत् यदि सतां स्वत एव सत्प्रत्ययो भविष्यति किं तया ?, असत्पक्षे तु शशविषाणादिष्वपि सत्तायोगात्सत्प्रत्ययः स्यादिति, तथा चोक्तम्"स्वतोऽर्थाः सन्तु सत्तावत्सत्तया किं सदात्मनाम् ? । असदात्मसु नैषा स्वात्सर्वथाऽतिप्रसङ्गतः ॥ १ ॥ इत्यादि । एतदेव दूषणमपरसामान्येऽप्यायोज्यं, तुल्ययोगक्षेमत्वात् । किञ्च- अस्माभिरपि सामान्यविशेषरूपत्वाद्वस्तुनः कथञ्चित्तदिष्यत एवेति, तस्य च १ समानखभावो भावः । २ गुणस पदार्थस्वरूपलान पृथकपदार्थता ३ द्रव्यादिभिन्नया । Ja Eucation Internation For Park Use Only ~459~ cocoes wor
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy