________________
आगम
(०२)
प्रत
सूत्रांक
||२२||
दीप
अनुक्रम [५५६]
सूत्रकृताङ्गं शीलाङ्का
चाय
चियुतं
॥२२७॥
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [२२], निर्युक्ति: [ १२१] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र - [०२], अंग सूत्र- [ ०२ ] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
-
भ्यां पृथिव्यादित्वेन परिणमन्तोऽपि न स्वकीयं द्रव्यत्वं त्यजन्ति न चावस्थाभेदेन द्रव्यभेदो युक्तः, अतिप्रसङ्गादिति । आकाशकालयोश्चास्माभिरपि द्रव्यत्वमभ्युपगतमेव, दिशस्त्वाकाशावयवभूताया अनुपपत्रं पृथग्द्रव्यत्वमतिप्रसङ्गदोषादेव, आत्मभच स्व| शरीरमात्रव्यापिन उपयोगलक्षणस्याभ्युपगतमेव द्रव्यत्वमिति, मनसश्च पुद्गलविशेषतया पुद्गलद्रव्येऽन्तर्भाव इति [ परमाणुवत् ], | भावमनसब जीवगुणत्वादात्मन्यन्तर्भाव इति । यदपि तैरभिधीयते, यथा पृथिवीत्वयोगात्पृथिवीति, तदपि स्वप्रक्रियामात्रमेव, यतो न हि पृथिव्याः पृथग्भूतं पृथिवीत्वमपि येन तद्योगात्पृथिवी भवेद् अपितु सर्वमपि यदस्ति तत्सामान्यविशेषात्मकं नरसिंहाकारमुभयस्वभावमिति, तथा चोक्तम्- "नान्वयः स हि भेदत्वान्न भेदोऽन्वयवृत्तितः । मृद्भेदद्वयसंसर्गवृत्तिजा (ज) त्यन्तरं घटः ॥ १ ॥" तथा "न नरः सिंहरूपत्वाम सिंहो नररूपतः । शब्दविज्ञानकार्याणां भेदाञ्जात्यन्तरं हि सः ॥ १ ॥ इत्यादि । अथ रूपरसगन्धस्पर्शा रूपिद्रव्यवृत्तेर्विशेषगुणाः, तथा सङ्ख्यापरिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरले इत्येते सामान्यगुणाः सर्वद्रव्यवृत्तितात्, तथा बुद्धिसुखदुःखेच्छाद्वेषप्रयत्रधर्माधर्मसंस्कारा आत्मगुणाः, गुरुवं पृथिव्युदकयोर्द्रवखं पृथिव्युदकाभिषु स्नेहोऽम्भस्येव वेगाख्यः संस्कारो मूर्तद्रव्येष्वेव आकाशगुणः शब्द इति । तत्र सङ्ख्यादयः सामान्यगुणा रूपादिवद्रव्यस्वभा (वाभा)वत्वेन परोपाधिकत्वाद्गुणा एव न भवन्ति, अथापि स्युस्तथापि न गुणानां पृथक्त्वव्यवस्था, तत्पृथक्त्वभावे द्रव्यस्वरूपहाने: 'गुणपर्यायवद् द्रव्य (तस्वा०अ०५ सू० )मितिकृत्वा अतो नान्तरीयकतया द्रव्यग्रहणेनैव ग्रहणं न्याय्यमिति न पृथग्भावः । किञ्च तस्य भावस्तच्वमित्युच्यते, भावप्रत्ययश्च यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने 'स्वतला' वित्यनेन भवति, तंत्र घटो रक्त उदकस्याहारको जलवान् सर्वैरेव घट उच्यते, अत्र च घटस्य भावो घटत्वं रक्तस्य भावो रक्तवं आहारकस्य भाव आहारकत्वं
Eaton International
For Praise Only
~458~
१२ समवसरणाध्य०
वैशेषिकतत्वनिरासः
॥२२७॥