________________
आगम
(०२)
प्रत
सूत्रांक
||22||
दीप
अनुक्रम [५५६]
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [२२], निर्युक्ति: [ १२१] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ०२], अंग सूत्र -[०२ ] “सुत्र कृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
स्यान्न चैतदिष्यत इति । असिद्धानैकान्तिकविरुद्धा हेखाभासाः, हेतुवदाभासन्त इति हेत्वाभासाः, तत्र सम्यग्धेतूनामपि न तत्त्व- । व्यवस्थितिः किं पुनस्तदाभासानां १, तथाहि इह यन्नियतं वस्त्वस्ति तदेव तत्त्वं भवितुमर्हति हेतवस्तु कचिद्वस्तुनि साध्ये हेतवः कचिदहेतव इत्यनियतास्त इति । अथ 'छलम्' अर्थविघातोऽर्थ विकल्पोपपच्येति, तत्रार्थविशेषे विवक्षितेऽभिहिते वक्तुरभिप्रायादर्थान्तरकल्पना बाछलं, यथा नवकम्बलोऽयं देवदत्तः, अत्र च नवः कम्बलोऽस्येति वक्तुरभिप्रायो विग्रहे च विशेषो न समासे, तत्रायं छलवादी नव कम्बला अस्येत्येतद्भवताऽभिहितमिति कल्पयति, न चायं तथेत्येवं प्रतिषेधयति, तत्र छलमित्यस - दर्थाभिधानं तद्यदि छलं न तर्हि तच्चं तत्त्वं चेन्न तर्हि छलं, परमार्थरूपत्वात्तत्वस्येति, तदेवं छलं तच्चमित्यतिरिक्ता वाचोयुक्तिः । दूषणाभासास्तु जातयः, तत्र सम्यग्रदुषणस्यापि न तचव्यवस्थितिः, अनियतत्वात् अनियतत्त्वं च यदेवैकसिन् सम्यग्रदूषणं तदेवान्यत्र दूषणाभासं पुरुषशक्त्यपेक्षत्वाच्च दूषणदूषणाभासव्यवस्थितेरनियतलमिति कुतः पुनर्दूषणाभासरूपाणां जातीनाम् ?, अवास्तवच्चात्तासामिति । वादकाले वादी प्रतिवादी वा येन निगृह्यते तनिग्रहस्थानं, तच्च वादिनोऽसाधनाङ्गवचनं प्रतिवादिनस्तदो (श्र तत्तदोषोद्भावनं विहाय यदन्यदभिधीयते नैयायिकैस्तत्प्रलापमात्रमिति, तच प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोध इत्यादिकम् एतच्च विचार्यमाणं न निग्रहस्थानं भवितुमर्हति भवदपि च पुरुषस्यैवापराधं कर्तुमलं, न खेतत्तन्त्रं भवितुमर्हति वक्तृगुगदोपौ हि परार्थेऽनुमानेऽधिक्रियेते न तु तच्चमिति, तदेवं न नैयायिकोक्तं तत्त्वं तत्त्वेनाश्रयितुं युज्यते, तस्योक्तनीत्या सदोपखा| दिति ॥ नापि वैशेषिकोक्तं तत्त्वमिति, तथाहि द्रव्यगुणकर्मसामान्य विशेषसमवायास्तत्त्वमिति, तत्र पृथिव्यप्तेजोवायुराकाशं कालो दिगात्मा मन इति नव द्रव्याणि तदत्र पृथिव्यप्तेजोवायूनां पृथग्द्रव्यत्वमनुपपन्नं, तथाहि त एवं परमाणवः प्रयोगविसा
Education Internationa
For Pernal Use On
~457~