________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [२२], नियुक्ति: [१२१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] “सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||२२||
दीप अनुक्रम [५५६]
गवादित्वं कसानाभ्युपगम्यते , तदुक्तपदार्थानामेवापटमानसात् , तथाहि नैयायिकदर्शनेन तावत्प्रमाणप्रमेयसंशयप्रयोजनाहटान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेलाभासच्छलजातिनिग्रहस्थानानी येते पोडश पदार्था अभिहिताः, तत्र हेयोपादेय
(निवृत्ति) प्रवृत्तिरूपतया येन पदार्थपरिच्छित्तिः क्रियते तत्प्रमीयतेऽनेनेति प्रमाणं, तच प्रत्यक्षानुमानोपमानशाब्दभेदाच्चतुर्की, तत्रेन्द्रियार्थसंनिकर्षोत्पन्न ज्ञानमव्यपदेश्यमयभिचारि व्यवसायात्मकं प्रत्यक्षं, तदन्द्रियार्थयोर्यः संबन्धस्तस्माद्यदुत्पन्न, नामिव्यत, ज्ञानं, न सुखादिकम् , अव्यपदेश्यमिति व्यपदेश्यले शाब्दप्राप्ते, अव्यभिचारि तद्धि द्विचन्द्रज्ञानवव्यभिचरतीति, व्यवसायात्मकमिति निश्चयात्मकं प्रत्यक्ष, तत्रास्य प्रत्यक्षतान बुध्य(युज्य)ते, तथाहि यत्रात्माऽर्थग्रहणं प्रति साक्षाव्याप्रियते तदेव प्रत्यक्षं, तच्चावधिमनःपर्यायकेवलात्मकम् , एतथापरोपाधिद्वारेण प्रवृत्तेरनुमानवत्परोक्षमिति, उपचारप्रत्यक्षं तु स्यात्, न चोपचारस्तत्त्वचिन्तायां व्याप्रियत इति । अनुमानमपि पूर्ववच्छेषवत्सामान्यतोदृष्यमिति विधा, तत्र कारणात्कार्यानुमानं पूर्ववत् कार्याकारणानुमानं | शेषवत् सामान्यतोदृष्टं तु चूतमेकं विकसितं दृष्ट्वा पुष्पिताछूता जगतीति यदिवा देवदचादौ गतिपूर्विका स्थानात स्थानान्तरात्राप्ति दृष्ट्वाऽऽदित्येऽपि मत्यनुमानमिति, तत्राप्यन्यथानुपपत्तिरेव गमिका, न कारणादिकं, तया विना कारणस्य कार्य प्रति व्यभिचारान्, यत्र तु सा विद्यते तत्र कार्यकारणादिन्यतिरेकेणापि गम्यगमकभावो दृष्टः, तद्यथा-भविष्यति शकटोदयः, कृत्तिकादर्शनादिति, तदुक्तम्-"अन्यथाऽनुपपन्नलं, यत्र तत्र त्रयेण किम् ? । नान्यथाऽनुपपनसं, यत्र तत्र त्रयेण किम् ? ॥१॥" अपिचप्रत्यक्षस्थाप्रामाण्ये तत्पूर्वकस्वानुमानस्खाग्रामाण्यमिति । प्रसिद्धसाधम्यात्साध्यसाधनमुपमानं, यथा गौर्मवयस्तथा, अत्र च सञ्चास
अनाना खात्मा शानसरूप इतीन्द्रियाविनाऽभिव्यज्यते शान तेषां दापयते । २ सुखस्यापीन्द्रियास्पिनरवात् ।। प्रियार्थोत्यं ।
versectatoercedesesecesteroesese
~453~