________________
आगम
(०२)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[५०४ ]
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१], अध्ययन [११], उद्देशक [-] मूलं [८], निर्युक्तिः [११५] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ०२], अंग सूत्र -[०२ ] “सुत्र कृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
तस्य
नागते च काले अपर्यवसानात्मकेऽनन्ता एव जीवास्तरिष्यन्ति । तदेवं कालत्रयेऽपि संसारसमुद्रोत्तारकं मोक्षगमनैककारणं प्रशस्तं भावमार्गमुत्पन्नदिव्यज्ञानैस्तीर्थकृद्भिरुपदिष्टं तं चाहं सम्यक् श्रुखाऽवधार्य च युष्माकं शुश्रूषूणां 'प्रतिवक्ष्यामि' प्रतिपादयिप्यामि, सुधर्मस्वामी जम्बूस्वामिनं निश्रीकृत्यान्येषामपि जन्तूनां कथयतीत्येतद्दर्शयितुमाह- हे जन्तवोऽभिमुखीभूय तं चारित्रमार्ग मम कथयतः शृणुत यूयं परमार्थकथने ऽत्यन्तमादरोत्पादनार्थमेवमुपन्यास इति ॥ ६ ॥ चारित्रमार्गस्य प्राणातिपातविरमणमूलखातत्परिज्ञानपूर्वकलादतो जीवस्वरूपनिरूपणार्थमाह - पृथिव्येव पृथिव्याश्रिता वा जीवाः पृथ्वीजीवाः, ते च प्रत्येकशरीरवात् 'पृथक' प्रत्येकं 'सत्त्वा' जन्तवोऽवगन्तव्याः, तथा आपच जीवाः, एवमशिकायाथ, तथाऽपरे बायुजीवाः, तदेवं चतुर्म| हाभूतसमाश्रिताः पृथक् सच्चाः प्रत्येकशरीरिणोऽवमन्तव्याः, एत एव पृथिव्यप्तेजोवायुसमाश्रिताः सत्त्वाः प्रत्येकशरीरिणः, वक्ष्य| माणवनस्पतेस्तु साधारणशरीरखेनापृथक्तमप्यस्तीत्यस्यार्थस्य दर्शनाय पुनः पृथक्सन्वग्रहणमिति । वनस्पतिकायस्तु यः सूक्ष्मः स सर्वोऽपि निगोदरूपः साधारणो चादरस्तु साधारणोऽसाधारणश्रेति, तत्र प्रत्येकशरीरिणोऽसाधारणस्य कतिचिद्भेदान्निर्दिदिक्षुराह-तत्र तृणानि दर्भवीरणादीनि वृक्षाः - चूताशोकादयः सह बीजैः - शालिगोधूमादिभिर्वर्तन्त इति सबीजकाः, एते सर्वेऽपि वनस्पतिकायाः सत्त्वा अवगन्तव्याः, अनेन च बौद्धादिमतनिरासः कृतोऽवगन्तव्य इति । एतेषां च पृथिव्यादीनां | जीवानां जीवत्वेन प्रसिद्धिखरूपनिरूपणमाचारे प्रथमाध्ययने शस्त्रपरिज्ञाख्ये न्यक्षेण प्रतिपादितमिति नेह प्रतन्यते ॥ ७ ॥ षष्ठजीवनिकायप्रतिपादनायाह-तत्र पृथिव्यप्तेजोवायुवनस्पतय एकेन्द्रियाः सूक्ष्मवादरपर्याप्ता पर्याप्तकभेदेन प्रत्येकं चतुर्विधाः, 'अथ' अनन्तरम् 'अपरे ' अन्ये वसन्तीति त्रसाः -- द्वित्रिचतुष्पञ्चेन्द्रियाः कृमिपिपीलिका भ्रमरमनुष्यादयः, तत्र द्वित्रिचतुर
For Parts Only
~403~
www.ansaray.org