SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२४|| दीप अनुक्रम [ ४९६ ] “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [११], उद्देशक [-] मूलं [ २४...], निर्युक्ति: [ ११५] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः - निश्चयेनायनं विशिष्टस्थानप्राप्तिलक्षणं यस्मिन् सति स न्यायः, स चेह सम्यक् चारित्रावाप्तिरूपोऽवगन्तव्यः, सत्पुरुषाणामयं न्याय एव यदुत अवाप्तयोः सम्यग्दर्शनज्ञानयोस्तत्फलभूतेन सम्यकुचारित्रेण योगो भवतीत्यतो न्यायशब्देनात्र चारित्रयोगोऽभिधीयत इति ३, तथा 'विधि'रिति विधानं विधिः सम्यग्ज्ञानदर्शनयोर्योगपद्येनावाप्तिः ४, तथा 'धृतिरिति धरणं धृतिः सम्यग्दर्शने सति चारित्रावस्थानं माषतुषादाविव विशिष्टज्ञानाभावाद्विवक्षयैवमुच्यते ५, तथा 'सुगति रिति शोभना गतिरसात् ज्ञानाचारित्राचेति सुगतिः, 'ज्ञानक्रियाभ्यां मोक्ष' इति न्यायात्सुगतिशब्देन ज्ञानक्रिये अभिधीयेते, दर्शनस्य तु ज्ञानविशेषलादत्रैवान्तर्भावोऽवगन्तव्यः ६, तथा 'हित' मिति परमार्थतो मुक्त्यवाप्तिस्तत्कारणं वा हितं तच्च सम्यग्दर्शनज्ञानचारित्राख्यमवगन्तव्यमिति ७, अत्र च संपूर्णानां सम्यग्दर्शनादीनां मोक्षमार्गले सति यद्वयस्तसमस्तानां मोक्षमार्गत्वेनोपन्यासः स प्रधानोपसर्जनविवक्षया न दोपायेति, तथा 'सुख'मिति सुखहेतुलात्सुखम् - उपश्रमश्रेण्यामुपशामकं प्रत्यपूर्वकरणानिवृत्तिवादरसूक्ष्मसं परायरूपा गुणत्रयावस्था ८, तथा 'पथ्य' मिति पथि - मोक्षमार्गे हितं पथ्यं तच्च क्षपकश्रेण्यां पूर्वोक्तं गुणत्रयं ९, तथा 'श्रेय' इत्युपशमश्रेणिमस्तकावस्था, उपशान्तसर्वमोहावस्थेत्यर्थः १० तथा निर्वृतिहेतुत्वान्निर्वृतिः क्षीणमोहावस्थेत्यर्थः, मोहनीय विनाशेऽवश्यं निर्वृतिसद्भावादितिभावः ११, तथा 'निर्वाण' मिति घनघातिकर्मचतुष्टयक्षयेण केवलज्ञानावाप्तिः १२, तथा 'शिव' मोक्षपदं तत्करणशीलं शैलेश्यवस्थागमन मिति १३, एवमेतानि मोक्षमार्गसेन किञ्चिद्भेदाद भेदेन व्याख्यातान्यभिधानानि यदिवैते पर्यायशब्दा एका| थिंका मोक्षमार्गस्येति । गतो नामनिष्पन्नो निक्षेपः, तदनन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारयितव्यं तच्चेदम्— कयरे मग्गे अक्खाए, माहणेणं मईमता ? । जं मग्गं उज्जु पावित्ता, ओहं तरति दुत्तरं ॥ १ ॥ Forest Use Only सम्यग् व मिथ्या मार्गस्य स्वरुप निरूपणा, मूल सूत्रस्य आरम्भः ~399~ 9300302৬১৬20
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy