________________
आगम
(०२)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[<]
सूत्रकृताङ्ग श्रीलङ्का
चाय
नियुतं
॥ १७ ॥
“सूत्रकृत्”
अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [१], मूलं [गाथा - ८...], निर्युक्तिः [३३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
ष्यते, तदपि न, यतो लेप्यमयप्रतिमायां समस्तभूतसद्भावेऽपि जडत्वमेवोपलभ्यते । तदेवमन्वयव्यतिरेकाभ्यामालोच्यमानो नायं चैतन्याख्यो गुणो भूतानां भवितुमर्हति समुपलभ्यते चायं शरीरेषु, तस्मात् पारिशेष्याद जीवस्यैवायमिति खदर्शनपक्षपात चिहायाङ्गीक्रियतामिति । यथोक्तं प्रशक- 'न पृथिव्यादिव्यतिरिक्त आत्माऽस्ति तद्ग्राहकप्रमाणाभावात्, प्रमाणं चात्र प्रत्यक्षमेवैक' मित्यादि, तत्र प्रतिविधीयते यत्तावदुक्तं 'प्रत्यक्षमेवैकं प्रमाणं नानुमानादिकमित्येतदनुपासितगुरोर्वचः, तथाहि अर्थाविसंवादकं प्रमाणमित्युच्यते, प्रत्यक्षस्य च प्रामाण्यमेवं व्यवस्थाप्यते – काथित्प्रत्यक्षव्यक्तीर्धर्मियेनोपादाय प्रमाणयति -प्रमा णमेताः, अर्थाविसंवादकवाद्, अनुभूतप्रत्यक्षव्यक्तिवत्, न च ताभिरेव प्रत्यक्षव्यक्तिभिः स्वसंविदिताभिः परं व्यवहारयितुमयमीशः, तासां स्वसंविभिष्ठत्वात् मुक्ताच्च प्रत्यक्षस्य, तथा नानुमानं प्रमाणमित्यनुमानेनैवानुमाननिरासं कुर्वश्चार्वाकः कथं नोन्मत्तः स्याद् ?, एवं हासौ तदप्रामाण्यं प्रतिपादयेत् यथा - नानुमानं प्रमाणं, विसंवादकत्वाद्, अनुभूतानुमानव्यक्तिवदिति, एवचानुमानम्, अथ परप्रसिद्ध्यैतदुच्यते, तदप्ययुक्तं यतस्तत्पर प्रसिद्धमनुमानं भवतः प्रमाणमप्रमाणं वा १, प्रमाणं चेत्कथमनुमान| मप्रमाणमित्युच्यते, अथाप्रमार्ण कथमप्रमाणेन सता तेन परः प्रत्याय्यते ?, परेण तस्य प्रामाण्येनाभ्युपगतत्वादिति चेद्, तदप्य साम्प्रतं, यदि नाम परो मौढ्यादप्रमाणमेव प्रमाणमित्यध्यवस्यति, किं भवताऽतिनिपुणेनापि तेनैवासौ प्रतिपाद्यते १ यो झज्ञो | गुडमेव विषमिति मन्यते किं तस्य मारयितुकामेनापि बुद्धिमता गुड एव दीयते ?, तदेवं प्रत्यक्षानुमानयोः प्रामाण्याप्रामाण्ये व्यवस्थापयतो भवतोऽनिच्छतोऽपि बलादायातमनुमानस्य प्रामाण्यं । तथा स्वर्गापवर्गदेवतादेः प्रतिषेधं कुर्वन् भवान् केन प्रमा १ प्येत प्र० ।
For Parts Only
~38~
१ समया
ध्ययने परसमयेषुचार्वाकः
॥ १७ ॥
Tianary or