________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-८...], नियुक्ति: [३३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||८||
दीप अनुक्रम [८]
गपारतच्याभ्युपगमेन भूतानामेव समुदितानां चैतन्याख्यो धर्मः संयोगवशादाविर्भवति, यथा किण्वोदकादिषु मद्याङ्गेषु समुदितेषु प्रत्येकमविद्यमानापि मदशक्तिरिति, तदा कुतोऽस्य दोषस्थावकाश इति?, अत्रोत्तरं गाथोपात्तचशब्दाक्षिप्तमभिधीयते--यत्तावदुक्तं यथा 'भूतेभ्यः परस्परसव्यपेक्षसंयोगभाग्भ्यश्चैतन्यमुत्पद्यते, तत्र विकल्पयामः-किमसौ संयोगः संयोगिभ्यो.भिन्नोऽभिन्नो वा, भिन्नश्चेषष्ठभूतप्रसंगो, न चान्यत् पञ्चभूतव्यतिरिक्तसंयोगाख्यभूतग्राहकं भवतां प्रमाणमस्ति, प्रत्यक्षस्यैवैकस्याभ्युपगमात्, | तेन च तस्याग्रहणात् , प्रमाणान्तराभ्युपगमे च तेनैव जीवस्यापि ग्रहणमस्तु, अथ अभिनो भूतेभ्यो संयोगः, तत्राप्येतश्चिन्तनीयं-किं भूतानि प्रत्येकं चेतनावन्त्यचेतनावन्ति चा?, यदि चेतनावन्ति तदा एकेन्द्रियसिद्धिः, तथा (च) समुदायस्य पञ्चप्रकारचैतन्यापत्तिः, अथाचेतनानि, तत्र चोक्तो दोषो, न हि यद्यत्र प्रत्येकमविद्यमानं तत्तत्समुदाये भवदुपलभ्यते, सिकतासु तैलवदित्यादिना । यदप्पत्रोक्तं यथा मद्यानेष्वविद्यमानाऽपि प्रत्येकं मदशक्तिः समुदाये प्रादुर्भवतीति, तदप्पयुक्तं, यतस्तत्र किण्वादिषु या च यावती च शक्तिरुपलभ्यते, तथाहि-किण्वे बुभुक्षापनयनसामर्थ्य अमिजननसामर्थ्य च उदकस्स तृडपनयनसामर्थ्यमित्यादिनेति, भूतानां च प्रत्येकं चैतन्यानभ्युपगमे दृष्टान्तदाष्टान्तिकयोरसाम्यं । किंच-भूतचैतन्याभ्युपगमे || | मरणाभावो, मृतकायेऽपि पृथ्व्यादीनां भूतानां सद्भावात् , नैतदस्ति, तत्र मृतकाये वायोस्तेजसो वाऽभावान्मरणसद्भावः इत्यशिक्षितस्योल्लापः, तथाहि-मृतकाये शोफोपलब्धेने वायोरभावः, कोषस्य च पक्तिखभावस्य दर्शनानानेरिति, अथ सूक्ष्मः कश्चिद्वायुविशेषोऽग्निर्वा ततोऽपगत इति मतिरिति, एवं च जीव एव नामान्तरेणाभ्युपगतो भवति, यत्किञ्चिदेतत् । तथा न भूतसमुदायमात्रेण चैतन्याविर्भावः, पृथिव्यादिष्येकत्र व्यवस्थापितेष्वपि चैतन्यानुपलब्धेः, अथ कायाकारपरिणती सत्यां तदभिव्यक्तिरि
1
REsamana
P
unmurary.org
~37~