________________
आगम
(०२)
प्रत
सूत्रांक
||३६||
दीप
अनुक्रम
[४७२]
“सूत्रकृत्”
अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१०], उद्देशक [-] मूलं [ ३६...], निर्युक्ति: [ १०६] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
नामादिना निक्षिप्य भावसमाधिनेह 'प्रकृतम्' अधिकार इति । समाधिनिक्षेपार्थमाह - नामस्थापनाद्रव्य क्षेत्र काल भाव मेदात् एष तु समाधिनिक्षेपः पत्रिधो भवति, तुशब्दो गुणनिष्पन्नस्यैव नानो निक्षेपो भवतीत्यस्यार्थस्याविर्भावनार्थ इति, नामस्थापने सुगम| खादनादृत्य द्रव्यादिकमधिकृत्याह – पञ्चस्त्रपि शब्दादिषु मनोज्ञेषु विषयेषु श्रोत्रादीन्द्रियाणां यथास्वं प्राप्तौ सत्यां यस्तुष्टिविशेषः स द्रव्यसमाधिः, तदन्यथा खसमाधिरिति यदिवा द्रव्ययोर्द्रव्याणां वा सम्मिश्राणामविरोधिनां सतां न रसोपघातो भवति अपितु रसपुष्टिः स द्रव्यसमाधिः, तद्यथा क्षीरशर्करयोर्दधिगुड चातुर्जातकादीनां चेति, येन वा द्रव्येणोपभुक्तेन समाधिपानकादिना समाधिर्भवति तद्रव्यं द्रव्यसमाधिः, तुलादावारोपितं वा यत् द्रव्यं समतामुपैतीत्यादिको द्रव्यसमाधिरिति, क्षेत्रसमाधिस्तु यस्य यसिन क्षेत्रे व्यवस्थितस्य समाधिरुत्पद्यते स क्षेत्रप्राधान्यात् क्षेत्रसमाधिः यस्मिन्वा क्षेत्रे समाधियवयत इति, कालस| माधिरपि यस्य यं कालमवाप्य समाधिरुत्पद्यते, तद्यथा शरदि गवां नक्तमुलूकानामहनि बलिभुजां यस्य वा यावन्तं कालं समाधिभवति यस्मिन्वा काले समाधिर्व्याख्यायते स कालप्राधान्यात् कालसमाधिरिति । भावसमाधिं लधिकृत्याह - भावसमाधिस्तु दर्शनज्ञानतपश्चारित्र भेदाचतुर्द्धा तत्र चतुर्विधमपि भावसमाधिं समासतो गाथापश्चार्धेनाह-मुमुक्षुणा चर्यत इति चरणं तत्र सम्यक्रूचरणे चारित्रे व्यवस्थितः समुयुक्तः 'साधुः' मुनिश्चतुर्ष्वपि भावसमाधिभेदेषु दर्शनज्ञानतपश्चारित्ररूपेषु सम्यगाहितो-व्यवस्थापित | आत्मा येन स समाहितात्मा भवति, इदमुक्तं भवति यः सम्यरुचरणे व्यवस्थितः स चतुर्विधभावसमाधिसमाहितात्मा भवति, यो वा भावसमाधिसमाहितात्मा भवति, स सम्यक्चरणे व्यवस्थितो द्रष्टव्य इति, तथाहि - दर्शनसमाधौ व्यवस्थितो जिनवचनभावितान्तःकरणो निवातशरणप्रदीपवन कुमतिवायुभिर्भ्राम्यते, ज्ञानसमाधिना तु यथा यथाऽपूर्व श्रुतमधीते तथा तथाऽतीव भाव
Education Intimation
-
समाधि शब्दस्य निक्षेपाः
For Fran
~377~