SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||१२|| दीप अनुक्रम [ ४४८] “सूत्रकृत्” - अंगसूत्र -२ ( मूलं+निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ९ ], उद्देशक [-], मूलं [१२], निर्युक्तिः [१०२ ] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः मायेति भण्यते, तथा भज्यते सर्वत्रात्मा प्रहीक्रियते येन स भजनो-लोभस्तं, तथा यदुदयेन ह्यात्मा सदसद्विवेक विकलखात् स्थण्डिलवद्भवति स स्थण्डिलः - कोषः, यस्मिंश्च सत्यूर्ध्व श्रयति जात्यादिना दर्पाध्मातः पुरुष उत्तानीभवति स उच्छ्रायो-मानः, छान्दसत्वान्नपुंसकलिङ्गता, जात्यादिमदस्थानानां बहुलात् तत्कार्यस्यापि मानस्य बहुमतो बहुवचनं, चकाराः स्वगतभेदसंसूचनार्थाः समुच्चयार्थी वा धूनयेति प्रत्येकं क्रिया योजनीया, तथथा – पलिकञ्चनं मायां धूनय धूनीहि वा, तथा भजन - लोनं, तथा स्थण्डिलं क्रोधं, तथा उच्छ्रायं मानं, विचित्रत्वात् सूत्रस्य नमोल्लङ्घनेन निर्देशो न दोषायेति, यदिवा-रागस्य दुस्त्य - जत्वाद लोभस्य च मायापूर्वकत्वादित्यादावेव मायालो भयोरुपन्यास इति, कषायपरित्यागे विधेये पुनरपरं कारणमाह – एतानि पलिकञ्चनादीनि अस्मिन् लोके आदानानि वर्त्तन्ते, तदेतद्विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत ॥ ११ ॥ पुनरप्युत्तरगुणानधिकृत्याह - धावनं प्रक्षालनं हस्तपादवखादे रञ्जनमपि तस्यैव, चकारः समुचयार्थः, एवकारोऽवधारणे, तथा बस्तिकर्म- अनुवासनारूपं तथा 'विरेचनं' निरूहात्मकमधोविरेको वा वमनम् ऊर्ध्वविरेकस्तथाऽञ्जनं नयनयोः इत्येवमादिकमन्यदपि शरीरसंस्कारादिकं यत् 'संयमपलिमन्थकारि' संयमोपघातरूपं तदेतद्विद्वान् स्वरूपतस्तद्विपाकतच परिज्ञाय प्रत्याचक्षीत | ।। १२ ।। अपिच गंधमलसिणाणं च, दंतपक्खालणं तदा । परिग्गहित्थिकम्मं च तं विज्जं परिजाणिया ॥ १३ ॥ १ निरुद्धो निश्चिते तर्फे बस्तिभेचे इति हेमः । Education intol For FPs at Use Only ~ 363~ incibrary o
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy