________________
आगम
(०२)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[ ४४४]
“सूत्रकृत्” - अंगसूत्र- २ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [-], मूलं [८], निर्युक्ति: [१०२] मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [०२], अंग सूत्र [०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
तथाभूतं 'शोक' संतापं त्यक्त्वा' परित्यज्य श्रोतो वा मिथ्यात्वाविरतिप्रमादकपायात्मकं कर्माश्रवद्वारभूतं परित्यज्य पाठान्तरं वा 'चिच्चा पणऽणंतगं सोयं' अन्तं गच्छतीत्यन्तगं न अन्तगमनन्तगं श्रोतः शोकं वा परित्यज्य 'निरपेक्ष:' पुत्रदारधनधान्यहिरण्यादिकमनपेक्षमाणः सन् आमोक्षाय परि-समन्तात् संयमानुष्ठाने 'व्रजेत्' परिव्रजेदिति तथा चोक्तम्- "छलिया अवयक्खता निरावयक्खा गया अविग्घेणं । तम्हा पत्रयणसारे निरावयक्खेण होयतं ॥ १ ॥ भोगे अवयक्खता पति संसारसागरे घोरे । भोगेहि निरवयक्खा तरंति संसारकंतारं ॥ २ ॥” इति ॥ ७ ॥ स एवं प्रत्रजितः सुत्रतावस्थितात्माऽहिंसादिषु व्रतेषु प्रयतेत, तत्राहिंसाप्रसिद्ध्यर्थमाह- 'पुढवी उ' इत्यादि लोकद्वयं तत्र पृथिवीकायिकाः सूक्ष्मबादरपर्याप्तका पर्याप्त कभेदभिनाः तथाऽकायिका अग्रिकायिका वायुकायिका चैवम्भूता एव, वनस्पतिकायिकान् लेशतः सभेदानाह-- 'तृणानि' कुशवैचकादीनि 'वृक्षाः' चूताशोकादिकाः सह बीजैर्वर्तन्त इति सबीजाः, बीजानि तु शालिगोधूमयवादीनि, एते एकेन्द्रियाः पञ्चापि कायाः पष्ठत्रसकायनिरूपणायाद - अण्डाजाता अण्डजाः शकुनिगृहको फिलकसरीसृपादयः तथा पोता एव जाताः पोतजा-ह| स्तिशरभादयः तथा जरायुजा ये जम्बालवेष्टिताः समुत्पद्यन्ते गोमनुष्यादयः तथा रसात् दधिसौवीरकादेर्जाता रसजास्तथा संखेदाञ्जाताः संखेदजा यूकामत्कुणादयः 'उद्भिज्जाः' खञ्जरीटकदर्दुरादय इति, अज्ञातभेदा हि दुःखेन रक्ष्यन्त इत्यतो भेदेनोपन्यास इति ॥ ८ ॥
१ छलिता अपेक्षमाणा निरपेक्षमाणा गता अविनेन तस्मात्प्रवचनसारे (झाते ) निरपेक्षेण भवितव्यम् ॥ १ ॥ २ भोगानपेक्षमाणाः पतन्ति संसारसागरे पोरे भोगेषु निरपेक्षास्तरन्ति संसारकान्तारं ॥ १ ॥ ३ बन्धका० प्र० ।
uttaration
For Parts Only
~361~