________________
आगम
(०२)
प्रत
सूत्रांक
||२०||
दीप
अनुक्रम [४३०]
“सूत्रकृत्” - अंगसूत्र- २ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ८ ], उद्देशक [-], मूलं [२०], निर्युक्ति: [९८] मुनि दीपरत्नसागरेण संकलित ...... आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
| मनोवाक्कायैः कृतकारितानुमतिभिश्व नवकेन भेदेनातिक्रमं न कुर्यात्, तथा सर्वतः - सबाह्याभ्यन्तरतः संवृतो गुप्तः तथा इन्द्रियदमेन तपसा वा दान्तः सन् मोक्षस्य 'आदानम्' उपादानं सम्यग्दर्शनादिकं सुषूयुक्तः सम्यग्विस्रोतसिकारहितः 'आहरेत्' आददीत-गृहीयादित्यर्थः ॥ २० ॥ किञ्चान्यत्
कडं च कज्जमाणं च, आगमिस्तं च पावगं । सवं तं णाणुजाणंति, आयगुत्ता जिइंदिया ॥ २१ ॥ जे याबुद्धा महाभागा, वीरा असमत्तदंसिणो । असुद्धं तेसि परकंतं, सफलं होइ सङ्घसो ॥ २२ ॥
साधूदेशेन यदपरैरनार्थकल्पैः कृतमनुष्ठितं पापकं कर्म तथा वर्त्तमाने च काले क्रियमाणं तथाऽऽगामिनि च काले यत्करिष्यते तत्सर्वं मनोवाक्कायकर्मभिः 'नानुजानन्ति' नानुमोदन्ते, तदुपभोग परिहारेणेति भावः, यदध्यात्मार्थ पापकं कर्म परैः कृतं क्रियते करिष्यते वा तद्यथा-शत्रोः शिरश्छिन्नं छिद्यते छेत्स्यते वा तथा चौरो हतो हन्यते हनिष्यते वा इत्यादिकं परानुष्ठानं 'नानुजानन्ति' न च बहु मन्यन्ते, तथा यदि परः कश्चिदशुद्धेनाहारेणोपनिमश्रयेत्तमपि नानुमन्यन्त इति, क एवम्भूता भवन्तीति दर्शयति - आत्माऽङ्कुशलमनोवाक्कायनिरोधेन गुप्तो येषां ते तथा, जितानि वशीकृतानि इन्द्रियाणि श्रोत्रादीनि यैस्ते तथा, एवम्भूताः पापकर्म नानुजानन्तीति स्थितम् ॥ २१ ॥ अन्यच्च ये केचन 'अबुद्धा' धर्म प्रत्यविज्ञातपरमार्था व्याकरणशुष्कतर्कादिपरिज्ञानेन जातावलेपाः पण्डितमानिनोऽपि परमार्थवस्तुतवानवबोधादबुद्धा इत्युक्तं न च व्याकरणपरिज्ञानमात्रेण सम्यक्त्तव्यतिरेकेण तत्त्वावबोधो भवतीति, तथा चोक्तम्- “शास्त्रावगाहपरिघट्टनतत्परोऽपि नैवाबुधः समभिगच्छति वस्तुतत्त्वम् ।
Education intol
For First Use Only
~351~