________________
आगम
(०२)
प्रत
सूत्रांक
||३०||
दीप
अनुक्रम [४१०]
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+निर्युक्ति:+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [-] मूलं [३०...], निर्युक्ति: [९६] मुनि दीपरत्नसागरेण संकलित ...... आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
अयं दारकः परिवर्धमानः शिलामेनामुद्धर्तुं हस्तिनं दमयितुमचं वाहयितुमित्यादि, इन्द्रियन लमपि श्रोत्रेन्द्रियादि स्वविषयग्रहणसमर्थ पञ्चधा एकैकं द्विविधं सम्भवे सम्भाव्ये च सम्भवे यथा श्रोत्रस्य द्वादश योजनानि विषयः, एवं शेषाणामपि यो यस्य विषय इति, सम्भाव्ये तु यस्य कस्यचिदनुपहतेन्द्रियस्य श्रान्तस्य क्रुद्धस्य पिपासितस्य परिग्लानस्य वा अर्थग्रहणासमर्थमपि इन्द्रयं सद्यथोक्तदोषोपशमे तु सति सम्भाव्यते विषयग्रहणायेति । साम्प्रतमाध्यात्मिकं वीर्यं दर्शयितुमाह-
उज्जमधितिधीरतं सोंडीरतं खमा य गंभीरं । उवओगजोगतवसंजमादियं होइ अज्झप्पो ॥ ९६ ॥
आत्मन्यधीत्यध्यात्मं तत्र भवमाध्यात्मिकम् - आन्तरशक्तिजनितं साच्चिकमित्यर्थः तच्चानेकधा - तत्रोद्यमो ज्ञानतपोऽनुष्ठानादिपूत्साहः, एतदपि यथायोगं सम्भवे सम्भाव्ये च योजनीयमिति, धृतिः संयमे स्थैर्य चित्तसमाधानमिति (यावत्), धीरत्वं परीष। होपसर्गाक्षोभ्यता, शौण्डीर्य त्यागसम्पन्नता, षट्खण्डमपि भरतं त्यजतचक्रवर्तिनो न मनः कम्पते, यदिवाऽऽपद्य विषण्णता, यदिवाविषमेऽपि कर्तव्ये समुपस्थिते पराभियोगमकुर्वन् मयैवैतत्कर्तव्यमित्येवं हर्षायमाणोऽविषण्णो विधत्त इति, क्षमावीर्यं तु परैराकुश्यमानोऽपि मनागपि मनसा न क्षोभमुपयाति, भावयति (च तत्त्रं तच्चेदम्-"आक्रुष्टेन मतिमता तत्त्वार्थगवेषणे मतिः कार्या ।। यदि सत्यं कः कोपः १ स्यादनृतं किं नु कोपेन ? ||१||" तथा "अकोसहणणमारणधम्म भंसाण बालसुलभाणं । लाभं मन्नइ धीरो | जहुत्तराणं अभावं (लाभ) सि ॥ १ ॥” गाम्भीर्यवीर्य नाम परीषहोपसँगैरधृष्यत्वं यदिवा यत् मनचमत्कारकारिण्यपि स्वानुष्ठाने १] आकोशद्दनमारण धर्मशाला लाभं मन्यते धीरो मयोत्तराणामभावे ॥ १ ॥
Education intemational
भाव - वीर्य एवं आध्यात्मिक वीर्यस्य व्याख्या
For Fans Only
~337~