________________
आगम
(०२)
प्रत
सूत्रांक
||१४||
दीप अनुक्रम [ ३९४]
“सूत्रकृत्” - अंगसूत्र- २ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [७], उद्देशक [-], मूलं [१४], निर्युक्तिः [९०] मुनि दीपरत्नसागरेण संकलित ...... आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
द्रव्यतस्ततो लवणरहितदेशे सर्वेषां मोक्षः स्यात् न चैवं दृष्टमिष्टं वा, अथ भावतस्ततो भाव एव प्रधानं किं लचणवर्जनेनेति, तथा 'ते' मूढा मद्यमांसं लघुनादिकं च भुक्सा 'अन्यत्र' मोक्षादन्यत्र संसारे वासम् अवस्थानं तथाविधानुष्ठानसद्भावात् सम्यग्दर्शन| ज्ञानचारित्ररूपमोक्षमार्गस्याननुष्ठानाच्च 'परिकल्पयन्ति' समन्तान्निष्पादयन्तीति ॥ १३ ॥ साम्प्रतं विशेषेण परिजिहीर्षुराहतथा ये केचन मृढा 'उदकेन' शीतवारिणा 'सिद्धिं' परलोकम् 'उदाहरन्ति' प्रतिपादयन्ति - 'सायम्' अपराह्ने विकाले वा 'प्रातश्च' प्रत्युषसि च आद्यन्तग्रहणात् मध्याह्ने च तदेवं सन्ध्यात्रयेऽप्युदकं स्पृशन्तः स्नानादिकां क्रियां जलेन कुर्वन्तः प्राणिनो | विशिष्टां गतिमाप्नुवन्तीति केचनोदाहरन्ति एतच्चासम्यक् यतो यद्युदकस्पर्शमात्रेण सिद्धिः स्यात् तत उदकसमाश्रिता मत्स्यथन्धादयः क्रूरकर्माणो निरनुक्रोशा बहवः प्राणिनः सिद्धयेयुरिति, यदपि तैरुच्यते - बाह्यमलापनयनसामर्थ्य मुदकस्य दृष्टमिति तदपि विचार्यमाणं न घटते, यतो यथोदकमनिष्टमलमपनयत्येवमभिमतमप्यङ्गरागं कुङ्कुमादिकमपनयति, ततच पुण्यस्थापनयनादिष्टविघातक द्विरुद्धः स्यात् किञ्च यतीनां ब्रह्मचारिणाम्मुदकस्नानं दोषायैव, तथा चोक्तम्- “स्नानं मददर्पकरं, कामाङ्गं प्रथमं स्मृतम् । तस्मात्कामं परित्यज्य, न ते स्नान्ति दमे रताः ॥ १ ॥ " अपिच - "नोदकक्लिन्नगात्रो हि, स्नात इत्यभिधीयते । स स्नातो यो व्रतस्नातः, स बाह्याभ्यन्तरः शुचिः ॥ १ ॥ " ॥ १४ ॥ किञ्च -
मच्छा य कुम्मा य सिरीसिवा य, मग्गू य उट्ठा (हा) दगरक्खसा य । अट्ठाणमेयं कुसला वयंति,
१ अन्येषामपि भाषाशुद्धयापादकानां वर्जनीयखात, भयमांसादिभोजित्वं वक्ष्यत्वमे ।
Education Intimation
Forest Use Only
~323~
www.jancibrary.org