________________
आगम
(०२)
प्रत
सूत्रांक
||२२||
दीप
अनुक्रम
[२९९ ]
सूत्रकृताङ्ग शीलाङ्का
चार्ययवृ
चियुतं
॥१२५॥
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [-], मूलं [२२...], निर्युक्तिः [८४] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
नारकाणाम् वेदना:
-
हृदयं पाटयन्ति तथा तद्गतं 'कालेज्ज' ति हृदयान्तर्वर्ति मांसखण्डं तथा 'फुप्फुसे त्ति उदरान्तर्वर्तीन्यन्त्रविशेषरूपाणि तथा ४५ नरकवि'चल्कलान्' वर्धान् आकर्षयन्ति, नानाविधैरुपायैरशरणानां नारकाणां तीव्र वेदनामुत्पादयन्तीति । अपिच तथा अन्वर्थाभिधाना रौद्राख्या नरकपाला रौद्रकर्माणो नानाविधेष्वसिशक्त्यादिषु प्रहरणेषु नारकानशुभकर्मोदयवर्तिनः प्रोतयन्तीति । तथा| उपरुद्राख्याः परमधार्मिका नारकाणामङ्गप्रत्यङ्गानि शिरोबाहूरुकादीनि तथा करचरणांश्च 'भञ्जन्ति' मोटयन्ति पापकर्माणः कल्पनीभि: 'कल्पयन्ति' पाटयन्ति, तन्नास्त्येव दुःखोत्पादनं यते न कुर्वन्तीति । अपिच - तथा कालाख्या नरकपालासुरा 'मीरासु' दीर्घचुल्लीषु तथा शुण्ठकेषु तथा कन्दुकेषु प्रचण्डकेषु तीव्रतापेषु नारकान् पचन्ति, तथा 'कुम्भीषु' उष्ट्रिकाकृतिषु तथा 'लोहिषु' आयसकवल्लिषु नारकान् व्यवस्थाप्य जीवन्मत्स्यानिव पचन्ति । अपिच - महाकालाख्या नरकपालाः पापकर्मनिरता नारकान्नानाविधैरुपायैः कदर्थयन्ति तद्यथा- 'काकिणीमांसकानि' लक्ष्णमांसखण्डानि 'कल्पयन्ति' नारकान् कुर्वन्ति, तथा 'सीहपुच्छाणि'ति पृष्ठीवर्भास्तांश्छिन्दन्ति तथा ये प्राक् मांसाशिनो नारका आसन् तान् स्वमांसानि खादयन्तीति । अपिच| असिनामानो नरकपाला अशुभकर्मोदयवर्तिनो नारकानेवं कदर्थयन्ति तद्यथा हस्तपादोरुबा हुशिरः पार्श्वादीन्यङ्गप्रत्यङ्गानि छिन्दन्ति 'प्रकामम्' अत्यर्थं खण्डयन्ति, तुशब्दोऽपरदुःखोत्पादनविशेषणार्थ इति । तथा-असिप्रधानाः पत्रधनुर्नामानो नरकपाला असिपत्रवनं बीभत्सं कृत्वा तत्र छायार्थिनः समागतान् नारकान् वराकान् अस्यादिभिः पाटयन्ति तथा कर्णोष्ठनासिकाकरचरणदशनस्तनस्फिंगूरुबाहूनां छेदन भेदनशातनादीनि विकुर्वितवाताहतचलिततरूपातितासिपत्रादिना कुर्वन्तीति, तदु
१ किंच प्र० । २ कण्ठोष्ठ० प्र०३ पूती स्फिजी कटिप्रथमः ।
For Penal Use On
~254~
भक्यध्य. उद्देशः १
॥१२५॥