________________
आगम
(०२)
प्रत
सूत्रांक
||१५||
दीप
अनुक्रम [२३९]
Earaton t
“सूत्रकृत्” - अंगसूत्र-२ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [४], मूलं [१५], निर्युक्ति: [५५] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
धर्मार्जनकालस्तु विवेकिनां प्रायशः सर्व एव यस्मात्स एव प्रधानपुरुषार्थः, प्रधान एव च प्रायशः क्रियमाणो घटां प्राञ्चति, तद ये वाल्यात्प्रभृत्यकृत विषयासङ्गतया कृततपभरणाः ते 'धीराः' कर्मविदारणसहिष्णवो बन्धनेन- स्नेहात्मकेन कर्मणा चोत् प्राबल्येन मुक्ता नावकाङ्क्षन्ति असंयमजीवितं यदिवा जीविते मरणे वा निःस्पृहाः संयमोद्यममतयो भवन्तीति ॥ १५ ॥ अन्यच -
जहा नई वेयरणी, दुत्तरा इह संमता । एवं लोगंसि नारीओ, दुरुत्तरा अमईमया ॥ १६ ॥ जेहिं नारीण संजोगा, पूयणा पिटुतो कता । सबमेयं निराकिच्चा, ते ठिया सुसमाहिए ॥ १७ ॥
यथेत्युदाहरणोपन्यासार्थः, यथा वैतरणी नदीनां मध्येऽत्यन्तवेगवाहित्वात् विषमतटत्वाच्च 'दुस्तरा' दुर्लङ्घया 'एवम्' अस्मि नपि लोके नार्यः 'अमतिमता' निर्विवेकेन हीनसत्त्वेन दुःखेनोत्तीर्यन्ते, तथाहि---वा हावभावैः कृतविद्यानपि स्वीकुर्वन्ति, तथा चोक्तम् - "सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाक्षेपमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिवाणाः पतन्ति ।। १ ।। " तदेवं वैतरणीनदीवत् दुस्तरा नार्यो भवन्तीति ।। १६ ।। अपिच 'यैः' उत्तमसन्चैः स्त्रीसङ्गविपाकवेदिभिः पर्यन्तकटवो नारीसंयोगाः परित्यक्ताः, तथा तत्सङ्गार्थमेव वस्त्रालङ्कारमाल्यादिभिरात्मनः 'पूजना' कामविभूषा 'पृष्ठतः कृता' परित्यक्तेत्यर्थः, 'सर्वमेतत्'
For Parts Only
~203~