________________
आगम
(०२)
प्रत
सूत्रांक
॥२॥
दीप
अनुक्रम
[२२६]
सूत्रकृताङ्ग शीलाङ्काचाय
तियुतं
॥ ९५ ॥
Education T
“सूत्रकृत्” - अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [४], मूलं [२], निर्युक्ति: [ ५० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र- [ ०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
कुतश्रिजातिसरणादिप्रत्ययादाविर्भूतसम्यग्दर्शनानां मौनीन्द्र भावसंयमप्रतिपत्त्या अपगतज्ञानावरणीयादिकर्मणां भरतादीनामिव मोक्षावाप्तिः न तु शीतोदकपरिभोगादिति ॥ १ ॥ किञ्चान्यत् केचन कुतीर्थिकाः साधुप्रतारणार्थमेवमूचुः, यदिवा स्ववयः शीतलविहारिण एतद् वक्ष्यमाणमुक्तवन्तः, तद्यथा-नमीराजा विदेहो नाम जनपदस्तत्र भवा वैदेहाः - तन्निवासिनो लोकास्तेऽस्य सन्तीति वैदेही, स एवम्भूतो नमी राजा अशनादिकमभुक्त्वा सिद्धिमुपगतः तथा रामगुप्तञ्च राजर्षिराहारादिकं 'भुक्त्वैव' सुजान एवं सिद्धिं प्राप्त इति, तथा बाहुकः शीतोदकादिपरिभोगं कृत्वा तथा नारायणो नाम महर्षिः परिणतोदकादिपरिभोगात्सिद्ध इति ॥ २ ॥ अपिच
आसिले देविले चेव, दीवायण महारिसी । पारासरे दगं भोच्चा, बीयाणि हरियाणि य ॥ ३ ॥ एवं महापुरिसा, आहिता इह संमता । भोच्चा बीओदगं सिद्धा, इति मेयमणुस्सु ॥ ४ ॥ आसिलो नाम महर्षिस्तथा देविलो द्वैपायनथ तथा पराशराख्य इत्येवमादयः शीतोदकवी जहरितादिपरिभोगादेव सिद्धा इति श्रूयते ॥ ३ ॥ एतदेव दर्शयितुमाह-एते पूर्वोक्ता नम्यादयो महर्षयः 'पूर्वमिति पूर्वस्मिन्काले त्रेताद्वापरादौ 'महापुरुषा' इति प्रधानपुरुषा आसमन्तात् ख्याताः आख्याताः - प्रख्याता राजर्षित्वेन प्रसिद्धिमुपगता इहापि आर्हते प्रवचने ऋषि'भाषितादौ केचन 'सम्मता' अभिनेता इत्येवं कुतीर्थिकाः स्वयूथ्या वा प्रोचुः, तद्यथा - एते सर्वेऽपि बीजोदकादिकं भुक्त्वा सिद्धा इत्येतन्मया भारतादौ पुराणे श्रुतम् ॥ ४ ॥ एतदुपसंहारद्वारेण परिहरन्नाह
For Parts Only
~ 194~
३ उपस गोध्य०
उद्देश: ४
॥ ९५ ॥