________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [४], मूलं [५], नियुक्ति: [५०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||||
दीप
तस्थ मंदा विसीअंति, वाहच्छिन्ना व गद्दभा। पिट्टतो परिसप्पंति, पिट्ठसप्पी य संभमे ॥५॥1॥ इहमेगे उभासंति, सात सातेण विजती । जे तत्थ आरियं मग्गं, परमं च समाहिए(यं)॥६॥ 'तत्र' तस्मिन् कुथुत्युपसर्गोदये 'मन्दा' अशा नानाविधोपायसाध्य सिद्धिगमनमवधार्य विषीदन्ति संयमानुष्ठाने, न पुनरेतद्विदन्त्यज्ञाः, तद्यथा--येषां सिद्धिगमनमभूत् तेषां कुतश्चिनिमित्तात् जातजातिस्मरणादिप्रत्ययानामबाप्तसम्यग्ज्ञानचारित्राणामेव वल्कलचीरिप्रभृतीनामिव सिद्धिगमनमभूत, न पुनः कदाचिदपि सर्वविरतिपरिणामभावलिङ्गमन्तरेण शीतोदकबीजाद्युपभोगेन जीवोपमर्दप्रायेण कर्मक्षयोऽवाप्यते, विषीदने दृष्टान्तमाह-वहनं वाहो-भारोद्वहनं तेन छिन्ना:-कर्षिताखुटिता रासभा | इव विपीदन्ति, यथा-रासभा गमनपथ एव प्रोज्झितभारा निपतन्ति, एवं तेऽपि प्रोश्य संयमभारं शीतलविहारिणो भवन्ति, | दृष्टान्तान्तरमाह-यथा 'पृष्ठसर्पिणो' भन्नगतयोज्यादिसम्भ्रमे सत्युभ्रान्तनयनाः समाकुलाः प्रनष्टजनस्य 'पृष्ठतः' पश्चात्प रिसर्पन्ति नाग्रगामिनो भवन्ति, अपि तु तवाम्यादिसम्भ्रमे विनश्यन्ति, एवं तेऽपि शीतलविहारिणो मोक्षं प्रति प्रवृत्ता अपि तु न मोक्षगतयो भवन्ति अपि तु तसिन्नेव संसारे अनन्तमपि कालं यावदासत इति ॥ ५॥ मतान्तरं निराकर्तु पूर्वपक्षयितुमाह'इहे'ति मोक्षगमन विचारप्रस्तावे 'एके' शाक्यादयः खयूथ्या वा लोचादिनोपतप्ता, तुशब्दः पूर्वमात् शीतोदकादिपरिभोगाद्विशेषमाह, 'भाषन्ते' बुवते मन्यन्ते वा कचित्पाठः, किं तदित्याह-'सातं' सुखं 'सातेन' सुखेनैव 'विद्यते' भवतीति, तथा च वक्तारो भवन्ति-"सर्वाणि सच्चानि सुखे रतानि, सर्वाणि दुःखाच समुद्विजन्ते । तसात्सुखार्थी सुखमेव दद्यात्, सु
aeeeeeeeeeeeeeeeeeeeee
अनुक्रम
[२२९]
~195~