________________
आगम
(02)
प्रत
सूत्रांक
||||
दीप
अनुक्रम [२०४]
“सूत्रकृत्” - अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [३], मूलं [१], निर्युक्ति: [ ५० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
जहा संगामकालंमि, पिटुतो भीरु वेहइ । वलयं गहणं णूमं, को जाणइ पराजयं १ ॥ १ ॥ मुहुत्ताणं मुहुत्तस्स, मुहुत्तो होइ तारिसो। पराजियाऽवसप्पामो, इति भीरू उवेहई ॥ २ ॥
दृष्टान्तेन हि मन्दमतीनां सुखेनैवार्थावगतिर्भवतीत्यत आदावेव दृष्टान्तमाह-यथा कश्विद् 'भीरुः' अकृतकरण: 'संग्राम| काले' परानीकयुद्धावसरे समुपस्थिते 'पृष्ठतः प्रेक्षते' आदावेवापत्प्रतीकारहेतुभूतं दुर्गादिकं स्थानमवलोकयति । तदेव दर्शयति - 'वलय' मिति यत्रोदकं वलयाकारेण व्यवस्थितम् उदकरहिता वा गर्ता दुःखनिर्गमप्रवेशा, तथा 'गहनं' घवादिवृक्षैः केटिसंस्थानीय 'शूमं 'ति प्रच्छन्नं गिरिगुहादिकं किमित्यस वेवमवलोकयति ?, यत एवं मन्यते तत्रैवम्भूते तुमुले सङ्ग्रामे सुभटसङ्कुले को जानाति कस्यात्र पराजयो भविष्यतीति ?, यतो दैवायत्ताः कार्यसिद्धयः, स्तोकैरपि बहवो जीयन्त इति ॥१॥ किचमुहूर्त्तानामेकस्य वा मुहूर्तस्यापरो 'मुहूर्त:' कालविशेषलक्षणोऽवसरस्तादय् भवति यत्र जयः पराजयो वा सम्भाव्यते, तत्रैवं व्यवस्थिते पराजिता वयम् 'अव सर्पामो' नश्याम इत्येतदपि सम्भाव्यते असद्विधानामिति भीरुः पृष्ठत आपत्प्रतीकारार्थ शरणमुपेक्षते ॥ २ ॥ इति लोकद्वयेन दृष्टान्तं प्रदर्श्य दान्तिकमाह
१ टिस्पद मायोपेक्षेन्द्रजाखानि पाया हमे इति श्रीगचन्द्रवचनादत्र पायपर उपेक्षि
Eucation intention
For Paren
~ 181 ~
১৫৯৩ ৯৩ ১৩১৬৬১৬390