________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [४], मूलं [१३], नियुक्ति: [३५]
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||१३||
दीप
विविधम्-अनेकप्रकारमुषितः-स्थितो दशविधचक्रवालसामाचार्या व्युषितः, तथा विगता-अपगता आहारादौ गृद्धिर्यस्थासौ विगतगृद्धिः साधुः, एवंभूतवादीयते खीक्रियते प्राप्यते वा मोक्षो येन तदादानीयं-ज्ञानदर्शनचारित्रत्रयं तत्सम्यग रक्षयेद-अनुपालयेत्, यथा यथा तस्य वृद्धिर्भवति तथा तथा कुयोंदित्यर्थः । कथं पुनश्चारित्रादि पालितं भवतीति दर्शयति-'चर्यासन-॥
शय्यासु' चरणं चर्या-गमन, साधुना हि सति प्रयोजने युगमात्रदृष्टिना गन्तव्यं, तथा सुप्रत्युपेक्षिते सुप्रमार्जिते चासने उप| वेष्टर्य, तथा शय्यायां-वसतौ संस्तारके वा सुप्रत्युपेक्षितप्रमार्जिते स्थानादि विधेयं, तथा भक्ते पाने चान्तशः सम्यगुपयोग-15 |वता भाव्यम् , इदमुक्तं भवति-ईयाँभाषेषणादाननिक्षेपप्रतिष्ठापनासमितिघृपयुक्तेनान्तशो भक्तपानं यावदुगमादिदोषरहित-18
मन्वेषणीयमिति ।। ११ ॥ पुनरपि चारित्रशुद्धयर्थ गुणानधिकृत्याह-एतानि-अनन्तरोक्तानि त्रीणि स्थानानि, तद्यथा-र्या| समितिरित्येकं स्थानम् , आसन शय्येत्यनेनादानभाण्डमात्रनिक्षेपणासमितिरित्येतच द्वितीय स्थानं, भक्तपानमित्यनेनैषणासमितिरुपाता, भक्तपानार्थं च प्रविष्टस्य भाषणसंभवाद्भाषासमितिराक्षिप्ता, सति चाहारे उच्चारप्रश्रवणादीनां सद्भावात्प्रतिष्ठापनासमि-18 तिरप्यायातेत्येतच तृतीय स्थानमिति, अत एतेषु त्रिषु स्थानेषु सम्यग्यतः संयत आमोक्षाय परिव्रजेदित्युत्तरश्लोकान्ते क्रियेति ।। तथा 'सततम्' अनवरतम् 'मुनिः सम्यक यथावस्थितजगत्रयचेचा उत्कृष्यते आत्मा दर्पाध्मातो विधीयतेऽनेनेत्युस्कर्पो-मान, तथाऽऽत्मानं चारित्रं वा ज्यलयति-दहतीति ज्वलन:-क्रोधः, तथा 'णूम मिति गहनं मायेत्यर्थः, तस्सा अलब्धमध्यखादेवमभिधीयते, तथा आसंसारमसुमतां मध्ये-अन्तर्भवतीति मध्यस्थो-लोभः, चशब्दः समुच्चये, एतान् मानादींचतुरोऽपि कषायाँस्तद्विपाका
eceaeeeeeeeseseseseseroesear
अनुक्रम [८८]
~107~