SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ . .४ अध्यात्म कमल-मार्तण्ड "गजाश्वपादातिरथादिकेषु यो मंत्रासिदुर्गद्रविणेषु कोटिषु । लिलेख लेखां भवितव्यताश्रितो बलं स्वसाद्विक्रममात्रसंभवम्।।१४ लब्धावकाशादथवा प्रसंगाद्यतो हता दुर्जनकिंकराकराः। तदत्र नामापि न गृह्यते मया लघुप्रहाणौ ननु पौरुषं कियत।।१५ अथास्तिकिश्चिद्यदि चित्रकूटकमुख्यातिलेखीकृतचित्रकूटकम् । अतोरणस्तम्भमवाप हेलया किमद्भुतं तत्र समानमानतः॥१६।। जगज गाजी गुजरातमध्यगो मृगाधिपादप्यधिकः प्रभावतः। मदच्युतो वैरिगजस्तदानीमितस्ततो याति पलायमानः ॥१७॥ ततोऽपि धृत्वा गिरिगह्वरादितः श्रिता वधं केचन बन्धनं क्षणात् । महाहयो मंत्रबलादिवाहताः प्रपेतुरापन्निधिसंनिधानके ॥१८॥ न केवलं दिग्विजयेऽस्य भूभृतां सहस्रखण्डैरिह भावितं भृशम् । भुवोऽपि निम्नोन्नतमानयानया चलच्चमूभारभरातिमात्रतः ॥१॥ अपि क्रमात्सूरतिसंज्ञको गिरेरपांनिधेः संनिधितः समत्सरः। कदापि केनापि न खण्डितो यतस्ततोऽस्ति दुर्गो बलिनांहि दुर्जयः॥२० अनेन सोऽपि क्षणमात्रवेगादनेकखण्डैः कृतजर्जरो जितः । विलंध्य वाधि रघुनाथवत्तया परं विशेषः कलिकौतुकादिव ।।२१।। "तथाविधोऽप्युद्धतवीरकर्मणि दयालुता चाऽस्य निसर्गताऽभवत् । क्रमेण युगपन्नवधा रसाः स्फुटमचिन्त्यचित्रा महतां हि शक्तयः।।२४॥ प्रपालयामास प्रजाः प्रजापतिरखण्डदण्डं यदखण्डमण्डलम् । अखण्डलश्चण्डवपुः सुरालयं श्रितामरानेव स बन्धुबुद्धितः ।।२।। "वधैनमेतद्वचनं तदास्यतो न निर्गत वापि निसर्गतश्चितिः। अनेन तद्यूतमुदस्तमेनसः सुधर्मराजः किल वर्ततेऽधुना ॥२८॥ - X Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003836
Book TitleAdhyatma Kamal Marttand
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy