________________
अध्यात्म-कमल-मार्तण्ड
समय मौजूद भी थे और उनके उपदेश तथा प्रादेशसे उक्त जिनालयमें कितने ही रंग-बिरंगे चित्रोंकी रचना हुई थी और उस रचनाको करनेवाला 'सार्थ' नामका कोई लिपिकार होगया था जैसा कि निम्न वाक्यसे प्रकट है:
श्रासीत्सूरिकुमारसेनविदितः पट्टस्थभट्टारकः स्याद्वादैरनवद्यवादनखरैर्वादीभकुम्भेभभित् । येनेदं युगयोगिभिः परिभृतं सम्यग्दृगादित्रयी नानारत्नचितं वृषप्रवहणं निन्येऽद्य पारं परम् ॥६५॥ तत्प?ऽजनि हेमचन्द्रगणभृद्भट्टारकोर्वीपतिः काष्ठासंघनभोङ्गणे दिनमणिमिथ्यान्धकारारिजित् । यन्नामस्मृतिमात्रतोऽन्यगणिनो विच्छायतामागताः । खद्योता इव वाथवाप्युडुगणा भान्तीव भास्वत्पुरः ॥६६॥ तत्प?ऽभवदर्हतामवयः श्रीपद्मनन्दी गणी विद्यो जिनधर्मकर्मठमनाः प्रायः सतामग्रणीः । भव्यात्मप्रतिबोधनोद्भटमतिर्भट्टारको वाक्पटुयस्याद्यापि यशः शशाङ्कविशदं जागर्ति भूमण्डले ॥६७|| तत्प? परमाख्यया मुनियशःकीर्तिश्च भट्टारको नैर्ग्रन्थ्यं पदमार्हतं श्रुतबलादादाय निःशेषतः । सर्पिदुग्धदधीतुतैलमखिलं पञ्चापि याबद्रसान् त्यक्त्वा जन्ममयं तदुग्रमकरोत्कर्मक्षयार्थ तपः ॥६८॥ तत्पऽस्त्यधुना प्रतापनिलयः श्रीक्षेमकीर्तिर्मुनिः हेयादेयविचारचारुचतुरो भट्टारकोष्णांशुमान् । यस्य प्रोषधपारणादिसमये पादोदविन्दूत्करैजर्जातान्येव शिरांसि धौतकलुषाण्याशाम्बराणां नृणाम् ||६६|| तेषां तदाम्नायपरंपरायामासीत्पुरो डौकनिनामधेयः । तद्वासिनः केचिदुपासकाः स्युः सुरेन्द्रसामग्युपमीयमानाः ॥७०||
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org