SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः सप्रीतिस्मरतनुगोचराणि तूर्णं लोकानां सफलय नेत्रकौतुकानि ॥ २२ ॥ कपिञ्जला- 'देवि ! किं अज्ज वि विलंबीयादि । दमयंती - (स्मित्वा) कपिञ्जले ! जं तुमं भणसि तं करेमि । ( वरमालामादाय नलस्य कण्ठे विन्यस्यति ) सर्वे - ( सहर्षमुच्चैःस्वरम् ) अहो ! सुवृत्तं सुवृत्तम् । नलः - (सहर्षरोमाञ्चमात्मगतम् ) अद्याभूद् भगवान् विरश्चिरुचितव्यासङ्गनिष्णातधीदेवस्याद्य मनोभवस्य फलवान् कोदण्डयोग्यक्लमः । चन्द्रोद्यानवसन्तदक्षिणमरुन्माल्यादिकस्याभवत् कामोत्सेधविधायिनोऽद्य सफलो भूगोलचारश्विरात् ॥ २३ ॥ ( प्रकाशं जनान्तिकम् ) कलहंस ! मकरिके ! फलितः स एष वां प्रयासः । [ ८१ कलहंसः - देव ! नावयोः प्रयासः फलितः, किन्तु देवस्य स्वप्नः । नल: - - समभूदिदानीं स्वप्नार्थप्रत्याशा । ( नेपथ्ये ) हो राजलोकाः ! प्रवर्त्यतां कौतुकविधिः, प्रतिरुध्यतां कोलाहलः, अवधीयतां झल्लरीझात्कारः । १. देवि ! किमद्यापि विलम्ब्यते ? २. कपिञ्जले ! यत् त्वं भणसि, तत् करोमि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy