________________
७८ ]
यात्रायां किल यस्य सिन्धुरघटाप्रायः*प्रसर्पच्चमूमूर्च्छालाब निलोलमूलतरले चामीकरक्ष्माभृति । घूर्णन्तीषु विशृङ्खलं प्रतिकलं दोलासु दैत्यद्विषां कन्याः कुञ्चितपाणयो विदधते प्रेङ्खाविनोदोत्सवम् ॥ १६ ॥ दमयन्ती - 'अज्ज माधवसेण ! णाहमा रामभूरुहविहारकोहलिणी |
नल विलासे
माधवसेनः-- (स्वगतम् ) अयमपि न मे मनः प्रीणयतीति निवेदितम् । भवतु । अग्रतः परिक्रमामि ( परिक्रम्य प्रकाशम् ) पक्ष्मलाक्षि !
त्रैलोक्योदरवर्त्तिकीर्तिकदलीकाण्डप्रकाण्डप्रथा
पाथोदं दयितं विधेहि तममुळे काचीपतिं भूपतिम् । वाहिन्या प्रथितप्रतापघनया यस्मिन् समाक्रामति क्लान्तः क्षोणिभृतः कुतो न निरगात् सङ्ग्रामगर्वोरगः १ ॥ १७॥ दमयन्ती- 'हीमाणहे ! परिस्संतम्हि एदिणा सयंवरमंडवभूमिविहरणेण, किचिरं अज्ज वि अज्जो माधवसेणो जंपिस्सदि १
वसुदत्त: - ( राजानं प्रति ) देव ! पश्य
१. आर्य माधवसेन ! नाहमारामभूरुहविहारकौतूहलिनी । २. हा ! परिश्रान्तास्मि एतेन स्वयंवरमण्डपभूमिविहरणेन । कियच्चिरमद्याप्यार्यो माधवसेनो जलिष्यति ?
* प्राप्तः प्र०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org