________________
चतुर्थोऽङ्कः
[ ७३
राजा -- अये माधवसेन ! प्रत्येकमवनीभुजां नयविनय-क्रम विक्रमानुकीर्तय पुरो वत्सायाः ।
माधवसेन: - ( पुरो भूत्वा दमयन्तीं प्रति ). स्मेराक्षि ! क्षितिचक्र विश्रुतबलः काशीक्षितीशो चलः सोऽयं स्कन्धतटेऽस्य मुञ्च विकचन्मल्लीप्रसूनस्रजम् । उच्छा स्पृहयालुशीकरभरव्यासङ्गरङ्गन्नगे
गागे रोघास सस्पृहा ग्लप (प्लव) यितुं चेद् ग्रीष्ममध्यन्दिनम् ||५|| दमयन्ती- 'अज्ज ! परवचणवसणिणो कासिवासिणो सुच्चति ।
माधवसेनः - न मेऽस्मिन् मनोरतिरिति व्यक्तमुच्यताम् । ( परिक्रम्य )
अयमवनिपतीन्दुभूपतिः कुङ्कणानां
कलय वलयधाम्ना पाणिना पाणिमस्य ।
अधिजलधिगतानां गोत्रशत्रुम गाति !
क्षपयति नहि पक्षान् क्ष्माभृतां शङ्कितोऽस्मात् || ६ || दमयन्ती-- अणि मित्तरोसिरो एस, ता न पारेमि पर पए अणुकूलिदु ।
माधवसेनः--- कुन्ददति । वयसैव लघीयसी, संसारोपनिषद्वैदुष्येण गरीयसी खल्वसि ।
१. आर्य ! परवञ्चनव्यसनिनः काशीवासिनः श्रूयन्ते । २. अनिमित्तरोषण एष, तन्न पारयामि पदे पदेऽनुकूलयितुम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org