________________
चतुर्थोऽङ्कः
[६७
राजा-(सभयम् ) किं तत् ?
वसुदत्तः---यो दमयन्ती परिणेष्यति, तस्य राज्यभ्रशम् (इत्योक्ते तूष्णीमास्ते)
राजा-शान्तं शान्तं प्रतिहतममङ्गलम्, ननु दमयंतीपतिस्त्रिखण्डभरतपतिरिति मुनयः समादिशन्ति । ततः कथं स तापसापसदो राज्यभ्रशं करिष्यति ?
वसुदत्तः--यदेव ज्ञानचक्षुषः समादिशन्ति तदेवास्तु । (विलोक्य) अयं स्वयंवरमण्डपः, इदं सिहासनमास्यतां देवेन ।
राजा-(तथा कृत्वा विलोक्य च) अमात्य ! समायाताः काशीपतिप्रभृतयः क्षोणिपतयः, परमद्यापि निषधाधिपति याति । कोऽत्र भोः ?
(प्रविश्य ) पुरुषः-आदिशतु देवः।
राजा-अये मङ्गलक ! कुसुमाकरोद्यानानिषधाधिपतिमाकार्य शचीपतिदिशि विनिवेशिते कार्तस्वरसिंहासने समुपवेशय।
('आदेशः प्रमाणम्' इति ब्र वाणो मङ्गलको निष्क्रान्तः । ततः प्रविशति मङ्गलकेनादिश्यमानसरणिर्नल: कलहंस-खरमुखमकरिकाऽऽदिकश्च परिवारः)
मङ्गलका-इत इतो निषधाधिपतिः । इदं सिंहासनमास्यताम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org